पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ अथर्वसंहिताभाष्ये द्वितीया ॥ शृङ्गा॑भ्यां॒ रक्षो॒ नि॒दते॒ मूलैन यातुधान्यः । मध्ये॑न॒ यक्ष्मं बाधते नैनं पा॒प्माति॑ तत्रति ॥ २ ॥ शृङ्गा॑भ्याम् । रः । नुद॒ते । मूले॑न । यातु॒ऽधा॒न्यः॑ । मध्ये॑न । यम॑म् । बाधते । न । ए॒न॒म् । पा॒प्मा । अति॑ । तत्रति॒ ॥२॥ अयं शतवारः शृङ्गाभ्याम् शृङ्गवद् अवस्थिताभ्याम् अग्रभागाभ्यां रक्षः राक्षसजातिं राक्षसान् अन्तरिक्षस्थान् नुदते अपसारयति । मूलेन अ- धः प्रदेशेन [ यातुधान्यः यातुधानीनुदते । मध्येन ] काण्डेन यक्ष्मम स- कलं रोगं बाधते । एनं सर्वस्य बाधकं शतवारमाण पाप्मा पापी पापं वा न अति तत्रति नातिक्रामति । यद्वा एनं प्रकृतम् उक्तविधमणिवि- शिष्टं पाप्मा पापं बाधकं नाति तत्रति । ४ तृ सवनतरणयोः । श्रुः शचेति विकरणइयम ४ ॥ तृतीया ॥ ये यक्ष्मा॑सो अभ॑का म॒हान्तो॒ ये च॑ श॒ब्दिन॑ः । सर्वा॑ दु॒र्णाम॒हा म॒णिः श॒तवा॑रो अनीनशत् ॥ ३ ॥ ये । यक्ष्मा॑सः | अर्भकां: । म॒हान्त॑ः । ये । च । शब्दिन॑ः । सर्वोन् । दुर्नाम॒ऽहा । मणिः । श॒तऽवरः । अ॒न॒न॒शत् ॥ ३ ॥ ये प्रसिद्धा अर्भकाः अमरूदा उत्पन्नमात्रा यक्ष्मासः यक्ष्मा रोगाः सन्ति ये च महान्तः अभिवृद्धा यक्ष्मा ये च शब्दिनः शब्दवन्तः एते दुश्चिकित्सा इति शब्द्यमानाः शब्दवन्तो वा [तान् ] सर्वान् उक्तलक्षणान रोगान् दुर्नामहा दुर्नामाख्यस्य रोगस्य हन्ता शतवारो मणिः अनीन- शत् भृशं नाशयतु ॥ १ P अर्भकः 1. We with PJ.