पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ अथर्व संहिताभाष्ये तिबन्धकोऽन्धकारः मां पीपरत् पारं मा गमयतु । किं तु ज्योतिष्मती सकलव्यवहारानुकूलप्रकाशोपेता रात्रिः नमः तिरस्करोतु । ताम ताह- शीम इषम् सर्वैरिष्यमाणां ताम उक्तलक्षणां रात्रिम अस्मे अस्माकं रा- सौधाम प्रयच्छतम् । यद्वा इदशब्देन सर्वैरिष्यमाणम अन्नम अभिधी- यते । सैव ज्योतिष्मती प्रकाशवती अन्नवतो लोके प्रकाशदर्शनात् । यद्वा तमो नाम दारिद्र्यम । तिरः सर्वस्य तिरोधायकम । तमः मा पीपरत् ज्योतिष्मत्येव इट् पीपरत् । [तां] तादृशीम इषं रासधाम इति व्याख्ये- यम् । शाखान्तरे तु " या नः पीपरत्" इति आम्नायते [ ऋ० १. ४६. ६ ] ॥ 66 1 इति पञ्चमेनुवाके सप्तमं सूक्तम् ॥ 'भद्रमिच्छन्तः" इत्येतद् अष्टमं सूक्तम एकर्चम् । तत्पाठस्तु भ॒द्रमि॒च्छन्त॒ ऋष॑य स्व॒र्व॑द॒स्तपो॑ दी॒क्षामु॑प॒निवे॑दु॒रवे॑ । तो॑ रा॒ष्ट्रं बल॒मोज॑श्च जा॒तं तद॑स्मै॑ दे॒वा उ॑प॒संन॑मन्तु ॥ १ ॥ भ॒द्रम् । इ॒च्छन्त॑ः । ऋष॑यः । स्व॒ ऽविद॑ः । तप॑ः । दी॒क्षाम् । उप॑ऽनिर्सेदुः । अ । तत॑ः । रा॒ष्ट्र । बल॑म् । ओज॑ः । च॒ । जा॒तम् । तत् । अ॒स्मै॒ । दे॒वाः । उ- प॒ऽन॑मन्तु ॥ १ ॥ I अग्रे सृष्ट्यादौ पूर्वम् ऋषयः अतीन्द्रियार्थद्रष्टारः । ४ ऋषिर्दर्श- नात् स्तोमान् ददर्शेत्योपमन्यव इति निरुक्तम् [ नि०२.११] ४ । ते भद्रम कल्याणं क्षेमम् इच्छन्तः स्वर्विदः स्वर्गं लभमानाः तत्साधनत्वेन तपः पयोव्रतादिलक्षणं दीक्षाम् नवनीताभ्यङ्गमुष्टीकरणवाग्यमनदण्डमेख- लादिधारणसाध्यां च उपनिषेदुः प्राप्ताः । ततः तत्सामर्थ्याद् राष्ट्रम राज्यं बलम् [ सामर्थ्यम् ओजश्च जातम् निष्पन्नम् । तत् राष्ट्रादिकं देवा अस्मै पुरुषाय उपसं] मन्तु संयोजयन्तु ॥ इति पञ्चमेनुवाके अष्टमं सूक्तम ॥ १ B दीक्षामुप, We with ACDKKR 3VDCs PÇ JABR V Cs उप- संनं. We with DK SDe PPJ. 19 धारणं. 28 शमंत for ° मन्तु.