पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू० १९. ] ६३५ विंशं काण्डम् | संहितायां "सहेः पृतनर्ताभ्यां च " इति षत्वम् । छान्दसो दीर्घः ४ । दर्थं त्वा त्वाम आवर्तयामसि आवर्तयामः । अस्मदभिमुखं कुर्मः ॥ द्वितीया ॥ अर्वाचीनं सुते॒ मन॑ उ॒त चक्षुः शतक्रतो । इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घत्त॑ः ॥ २ ॥ ६२५ त- अ॒र्वा॒चीन॑म् । सु । ते॒ मन॑ः । उ॒त । चक्षु॑ः । शतक्रतो इति॑ शतऽऋतो । इन्द्र॑ । कृ॒ण्वन्तु॑ । वा॒घत॑ः ॥ २ ॥ हे शतकतो बहुकर्मेन्द्र ते तव मनः वाघतः यज्ञनिर्वाहका ऋत्विजः सु सुष्ठु अर्वाचीनम् अस्मदभिमुखं कृण्वन्तु । "विभाषाऽञ्चेरदिस्त्रि- याम" इति खप्रत्ययः । खस्य ईनादेशः । प्रत्ययस्वरः । उत अपि च ते चक्षुः तव दृष्टिमपि अस्मदभिमुखाम् अस्मासु कृपावतीं कुर्वन्तु ॥ तृतीया ॥ नामानि ते शतक्रतो विश्वा॑भिर्गीर्भिरीमहे । इन्द्रा॑भिमाति॒षा ॥ ३ ॥ नामा॑नि । ते । शतक्रतो इर्ति शतक्रतो । विश्वभिः । गीः ऽभिः । ईमहे । इन्द्र॑ । अ॒भिमाति॒ऽ ॥ ३ ॥ " हे शतक्रतो बहुकर्मेन्द्र अभिमातिषाये । अभिमातयः शत्रवः । तेषां सहनयोग्ये संग्रामे । अथ वा अभिमातिः पाप्मा । " पाप्मा वा अभि- मातिः” इति श्रुतेः [ तै० सं० २,१.३. ५ ] । तस्य सहनयोग्ये पापक्षय- निमित्तभूते कर्मणि ते तव नामानि सहस्राक्षः पुरंदरादिरूपाणि । अथ वा नमनीयानि वृत्रवधादिकर्माणि विश्वाभिः सर्वाभिः गीर्भिः स्तुतिल- क्षणाभिर्वाग्भिः ईमहे याचामहे संकीर्तयामः । ई गतौ । व्यत्य- न आत्मनेपदम् । अदादित्वात् शपो लुक् ४ ॥ चतुर्थी ॥ पु॒रुष्टुतस्य॒ धाम॑भिः श॒तेन॑ महयामसि ।