पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२६ अथर्वसंहिताभाष्ये इन्द्र॑स्य चर्षणी॒धृतेः ॥ ४ ॥ " पु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभिः । श॒तेन॑ । म॒ह॒यम॒सि॒ । इन्द्र॑स्य । चर्षणिऽधृतेः ॥ ४ ॥ पुरुष्टुतस्य पुरुभिर्बहुभि: स्तोतृभिः स्तुतस्य । न्दसि " इति षत्वम् । युक्तस्येति शेषः । यद्वा ।

  • " स्तुतस्तोमयोश्छ-

शतेन शतसंख्याकैः धामभिः तेजोभिः | षष्ठ्यर्थे तृतीया ४ | धाम्नां स्थानानां शतेन युक्तस्य । असंख्यातस्थानवत इत्यर्थः । चर्षणीधृतः । चर्षणयो म- नुष्याः । तान् धारयति रक्षतीति चर्षणीधृत् । तस्य उक्तलक्षणस्येन्द्रस्य । उक्तलक्षणम् इन्द्रम् इत्यर्थः । महयामसि महयामः पूजयामः स्तुमः । या शतेन शतसंख्याकेन स्तोत्रेण उक्तलक्षणम् इन्द्रं महयामसीति योज्यम् ॥ पञ्चमी ॥ इन्द्र॑ वृ॒त्राय॒ हन्त॑वे पुरुहूतमुप॑ ब्रुवे । भरेषु वाज॑सातये ॥ ५ ॥ इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । पु॒रु॒ऽहूतम् । उप॑ । ब्रुवे॒ । भरे॑षु । वाज॑सा॒तये ॥ ५ ॥ पुरुहूतम् बहुभिर्यजमानैराहूतं संग्रामे वा स्वस्वजयार्थ बहुभिराहूतम इन्द्रं वृत्राय । " क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदान- त्वम् ४ । वृत्रनामानम् असुरं पापं वेत्यर्थः । हन्तवे हन्तुम् । मर्थे० " तवेन प्रत्ययः । नित्स्वरः ४ । "तु- किं च भरेषु । संग्रामनामै - तत् । संग्रामेषु वाजसातये । वाजः अन्नम् । " अन्नं वै वाजः " इति श्रुतेः [ तै० सं०५, ४ . ६ . ६ ] । अन्नलाभाय । शत्रुजयम् अन्तरेण नदी- यस्यान्नस्य लाभाभावात् तज्जयायेत्युक्तम् भवति । उक्तलक्षणोभयविधप्रयो- जनाय इन्द्रम उप ब्रुवे उपेत्य स्तौमि ॥ षष्ठी ॥ वर्जेषु साहिदे॑व॒ त्वामहे शतक्रतो । 18' धारयति रक्षतीति चर्षणीधृत्.