पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२७ अथर्वसंहिताभाष्ये शत्रुषु पापेषु वा । हन्तव्येष्विति शेषः । एतेषु फलेषु निमित्तभूतेषु सा- क्ष्व अस्मान् सचस्व अनुसर । ♛ वह अभिभवे । लोटि “बहुलं छन्दसि ” इति शपो लुक् । कुत्वषत्वे । दीर्घश्छान्दसः ४ ॥ [इति] तृतीयेनुवाके द्वितीयं सूक्तम् ॥ । “शुष्मिन्तमं न ऊतये " इति सूक्तस्य अतिरात्रे ब्राह्मणाच्छंसिनः म- थमपर्यायशस्त्रे विनियोग उक्तः ॥ तत्र प्रथमा || शुष्मिन्त॑मं न ऋ॒तये॑ द्युम्निनं पाहि जागृविम । इन्द्र सोमं शतक्रतो ॥ १ ॥ शुष्मिन्त॑मम् । न॒ः । ऊ॒तये॑ । द्यु॒म्नन॑म् । हि॒ । जागृविम । इन्द्रं । सोम॑म् । शतक्रतो इर्ति शतक्रतो ॥ १ ॥ हे शततो बहुकर्मेन्द्र नः अस्माकं संबन्धिनं शुष्मिन्तमम् अतिशयेन बलवन्तम् । ४ "नाद् धस्य " इति नुडागमः । युम्निनम द्योतनवन्तं जागृविम जागरणशीलं स्वप्ननिवारकम् । न हि सोमं पी- तवत: स्वप्नप्रसङ्गोस्ति अस्वप्नत्वसाधनत्वात् तस्य । उक्तमहिमोपेतं सोमम ऊतये अस्माकं रक्षणाय पाहि पिब || द्वितीया ॥ इन्द्रियाणि शतक्रतो या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र तानि आ वृ॑णे ॥ २ ॥ इ॒न्द्रि॒याणि॑ । शतक्रतो॒ इति॑ शतऽक्रतो । या । ते॒ । जने॑षु । प॒ञ्चऽसु॑ । इन्द्र॑ । तानि॑ । ते॒ । आ । वृणे ॥ २ ॥ हे शतक्रतो हे इन्द्र ते तव संबन्धीनि यानि प्रसिद्धानि इन्द्रियाणि इन्द्रसृष्टानि इन्द्रदत्तानि वा वीर्याणि दर्शनश्रवणादिलक्षणानि पञ्चसु जनेषु देवमनुष्यपित्रसुररक्षः सु निषादपञ्चमेषु चतुर्षु वर्णेषु वा विद्यन्ते [ते] तव 1 So S, disagreeing with the explanation based upon षच समवाये. Sayana war probably thinking of his explanation of the word in Riy. II. 37.7 28/ संबंधि