पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू०२१.] ६३७ विंशं काण्डम् | ६३१ भद्रं भ॑वाति नः पुरः ॥ ६ ॥ ' इन्द्र॑ः । च॒ । मृलयति । नः॒ः । न । नः । प॒श्चात् । अधम । नशत् । - भद्रम् । भवाति । नः । पुरः ॥ ६ ॥ इन्द्रश्च । च शब्दश्चेदर्थे । अस्माभिः शरणं गन्तव्यों देवः इन्द्रश्चेत् परमैश्वर्यगुणविशिष्टः सर्वभूतस्य रक्षकश्चेद् नः अस्मान् मृलयात सुख- यतु । मृडयतेर्लेटि आटि कृते रूपम ४ । स तादृशश्चेत् [प- श्चात् पृष्ठतो ] नः अस्मान् अघम् दुःखं न नशत् न प्राप्नोतु । न- शेर्लेद । किं च नः अस्माकं पुरः पुरस्ताद् भद्रम् मङ्गलं च भवाति भवतु । ४भवतेर्लेट्& ॥ सप्तमी ॥ इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् । जेता 'शत्रून् विच॑र्षणिः ॥ ७ ॥ इन्द्र॑ः । आशा॑भ्यः । परि॑ । सर्वा॑भ्यः । अभ॑यम् । करत् । जेता॑ । शत्रून् । विऽच॑र्षणिः ॥ ७ ॥ स इन्द्रः सर्वाभ्य आशाभ्यस्परि । * परीति पञ्चमीद्योतकः ४ । दि- ग्भ्यो विदिग्भ्यः उपर्यधोदिग्भ्यां च अस्माकम् अभयम् भयराहित्यं क्षेमं करत करोतु । सकलदिग्गतभयपरिहारसामर्थ्यं तस्य संभावयति । स इन्द्रः शत्रून जेता सर्वास्वपि दिक्षु अस्माकं ये भयकारिणः शत्रवः सन्ति तेषां सर्वेषाम् अभिभविता विचर्षणिः तेषां विद्रष्टा च ॥ 66 [इति ] तृतीयेनुवाके तृतीयं सूक्तम् ॥ 'न्यूषु वाचम्” इति सूक्तस्य ब्राह्मणाच्छंसिनः प्रथमपर्यायशस्त्रे वि- नियोग उक्तः । अत्र “ य उहचि” इत्येषा अन्तिमा परिधानीया ॥ तत्र प्रथमा || न्यूरु॑षु॒ वाच॑ म म॒हे भ॑रा॒महे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः । नू चि॒द्धि ते॑ सस॒तामि॒वाव॑द॒न्न दु॑ष्टुतिर्द्रविणो॒देषु॑ शस्यते ॥ १ ॥