पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५, सू° ४२. ] ५४६ एकोनविंशं काण्डम् । ४४५ " ब्रह्म होता" इति नवमं सूक्तम ॥ [ तत्र प्रथमा ॥] ब्रह्म॒ होता॒ ब्रह्म॑ य॒ज्ञा ब्रह्म॑णा वरंवो मिताः । अ॒ध्व॒र्युर्ब्रह्म॑णो जा॒तो ब्रह्म॑णा॒न्त॑हि॑तं ह॒विः ॥ १ ॥ ब्रह्म॑ । होता॑ । ब्रह्म॑ य॒ज्ञाः । ब्रह्म॑णा । स्व॑र॑वः । मि॒ताः । अ॒ध्व॒र्युः । ब्रह्म॑णः । जा॒तः । ब्रह्म॑णः । अ॒न्तः ऽहि॑तम् । ह॒विः ॥ १ ॥ ब्रह्म जगदुपादानकारणं तत्त्वम् । तदेव यज्ञाङ्गभूत होत्रकर्तृत्वोपाधिना होता इत्युच्यते । कृत्स्नस्य कार्यकारणप्रपञ्चस्य ब्रह्मात्मकत्वात् “ब्रह्मैवेदं सर्वम्” [मु०२,२.११] “ तत् सृष्ट्वा तदेवानुमाविशत्” इति [ तै० आ० ८. ६] स्वसृष्टसकलपदार्थानुप्रवेशश्रुतेश्च । “ तं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी" इति [ श्वे०४.३] श्रुतेर्ब्रह्मव्यतिरिक्तस्य क- स्यचिदभावाद् ब्रह्मणो होत्रादिरूपत्वम् । तथा यज्ञा: ज्योतिष्टोमादयोपि ब्रह्मैव । “ तस्माद् ऋचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे ऋतवो द- क्षिणाश्च" इति मुण्डकश्रुतेः [मु०२, १.६ ] ब्रह्मैव यज्ञा इत्युच्यन्ते । एवं ब्रह्मणैव स्वरगामिता स्वराणां कुष्टादीनां सप्तानाम् उदात्तादीनां च चतुर्णा गामिता यज्ञानुप्रवेष्टृता । उद्गातृत्वादिभाव इत्यर्थः । यद्वा स्वर्ग गन्तृता । ज्योतिष्टोमाद्यनुष्ठातृभ्य इति शेषः । अध्वर्युरपि ब्रह्मण एव जातः उत्पन्नः । प्रागुक्तनीत्या ब्रह्मणः सकाशाद् उत्पत्तिरवगन्तव्या । तथा १ ABDRS स्वर॑वामि॒िता. C सर॑वामि॒ता. KKVDe स्व॑रमि॒ता. C संरवामिता P Î J स्वः। अ॒षामि॒ता ।, Sayana's text: स्वरगामिता. Our emendation is one that is suggested by the accent in ABCDRS, a correction which Rw have already very rightly conjectured. Styama's reading we do not adopt, first lecause it is inron- sistent with our traditional accent ( his accent must he ब्रह्मणा स्वरगामिता ), and secondly because a word like स्वरगामिता ( apart from the question whether स्वरगामी can mean उङ्गाता) has the look of being very un-Vedic. ABCRS CS अध्वर्युत्र- झणो. We with DK VDO. 3 ABCDKKR SVDCs °हिते for °हितं. PP J अन्तःर्हिते . We with Sayana. 18' 'हौकर्तृपोधिना for हौत्रकर्तृत्वोपाधिना. 2 So Sayana's text also. 3 S' कृष्टा- दीनां 48 प्रवेष्टता.