पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ° ३. सू०२१,] ६३७ विंशं काण्डम् | ६३७ स्मात् कारणात् नम्या नम्यया सर्वैः प्रह्वीभवितुम अर्हया सख्या सखि - भूतया शतया आयुधेन परावति दूरदेशे नमुचिं नाम नमुचिनामधेयम असुरं मायिनम् मायावन्तं निबर्हयः नितराम अहिंसीः । अतस्त्वम् एवं स्तूयस इत्यर्थः ॥ अष्टमी || त्वं तप॒र्णय वस्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्तनी । श॒ता वहू॑दस्याभिन॒ पुरो॒नानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥ ८ ॥ त्वम् । र॑म् । उ॒त । प॒र्णय॑म् । व॒धः । तेजि॑ष्ठया । अ॒ति॒धि॒ऽग्वस्य॑ । वर्तनी । त्वम् । श॒ता । वज्र॑दस्य । अ॒भि॒न॒त् । पुर॑ः । अननु॒ऽदः । परि॑ऽसूताः । ऋ- जिवना ॥ ७ ॥ हे इन्द्र त्वं करम् एतन्नामानम् असुरं वधीः अवधीः हतवान् असि ।

  • हन्तेर्लुङि सिपि “लुङि च " इति वंधादेशः । तस्य अ-

दन्तत्वाद् वृद्ध्यभावः । अत एव अनेकाचाद् इट्प्रतिषेधाभाव: । “ इट ईटि" इति सिचो लोपः । उत अपि च पर्णयम् एतत्संज्ञकम् असुरं वधीः । किमर्थम् अवधीरिति तत्राह । अतिथिग्वस्य अतिथ्यर्था गावो यस्यासौ अतिथिग्वः । तस्य राज्ञः प्रयोजनाय । केन साधनेनेति उच्यते । तेजिष्ठया अतिशयेन तेजोवत्या । तेजः शब्दाद् “ अस्मा- यामेधास्रजो विनिः” इति मत्वर्थीयो विनिः । तस्माद् आतिशायनिक- छन् । “विन्मतोर्लुक्” इति विनो लुक् । “टेः” इति टिलोपः । नि- वाद् आयुदात्तत्वम् । तादृश्या वर्तनी वर्तन्या शक्त्या एतन्नाम- केन आयुधेन ॥ किं च त्वमश्विना एतन्नामकेन राज्ञा निमित्तेन परिषूताः परितोऽवष्टब्धाः शता शतानि शतसंख्याका वङ्गदस्य एतत्संज्ञ- कस्य असुरस्य पुरः पुराणि नगराणि [ अभिनत नाशितवान । कीह- शस्त्वम् । ] अननुदः नुदति शत्रून अपसारयतीति नुदः न तादृशोऽनुदः अंप्रेरकः । तादृशो न भवतीत्यनानुदः । सर्वदा शत्रुच्यावक इत्यर्थः । 1 S' यङादेशः 28/ ardds एवम् before उत. 3 S' सप्रेरकः.