पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३८ अथर्व संहिताभाष्ये अथ वा अनु पश्चाद् [ द्यति] खण्डयतीत्यनुदः अनुचरः । स यस्य नास्ति सोsनानुदः । असहायभूत इत्यर्थः । दो अवखण्डने । आदेचः ०" इत्यात्त्वम् । " आतश्चोपसर्गे" इति कप्रत्ययः । नास्ति अनुदोस्य इति बहुव्रीहौ " नञ्सुभ्याम" इति उत्तरपदान्तोदात्तत्वम ४ ॥ नवमी ॥ त्वमे॒तां ज॑न॒राज्ञो द्विद॑शा॑व॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुष॑ः । प॒ष्टिं स॒हस्र नव॒तिं नव॑ श्रुतो नि च॒क्रेण॒ रथा॑ दु॒ष्पदा॑वृणक् ॥ ९ ॥ त्वम् । ए॒तान् । ज॒न॒ऽराज्ञेः । द्विः । दश॑। अ॒बन्धुना॑ । सुव॑सा । उ- जग्मुः । प॒ष्टिम् । स॒हस्र । नव॒त्तिम् । नव॑ । श्रुतः । नि । च॒क्रेण॑ । रर्थ्या । दुःऽप- दा॑ । अ॒वृक् ॥ ९ ॥ । हे इन्द्र श्रुतः विख्यातस्त्वम् अबन्धुना बन्धुरहितेन सहायवर्जितेन सु- श्रवसा एतन्नामकेन राज्ञा निमित्तेन एतान् प्रसिडान उपजग्मुषः उप- गतान् निरोधं कृतवतः द्विर्दश द्विगुणितान् दशसंख्याकान् । विंशतिसं- ख्याकान् इत्यर्थः । तथा षष्टिं सहस्रा सहस्राणां षष्टिम् षष्टिसहस्रसं- ख्याकान् तथा नवतिं नव नवोत्तरनवतिसंख्याकान् जनराज्ञः जनानां भटानां स्वामिनः उक्तसंख्याकान् सेनानायकान् दुष्पदा दुष्पदनेन श- त्रुभिर्गन्तुम अशक्येन रथ्या रथार्हेण । " रथाद् यत्" इति चक्रेण न्यवृणक् न्यवज्ञेयः अनाशयः । 8 वृजी वर्जने । रौधादिकः । लङि मध्यमैकवचने “ हड्याबस्य:" इति सिंपो लोपः । यत् छु । 66 चोः कुः" इति कुत्वम 8 ॥ दशमी ॥ त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् । त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमायु॑ म॒हे राज्ञे यूने॑ अरन्धनायः ॥ १० ॥ 18 सिचो.