पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू०२१.] ६३७ विंशं काण्डम् | । ६३९ त्वम् । आ॒वि । ऽश्रव॑सम् । तव॑ ऊ॒तिऽर्भः । तव॑ । त्राम॑ऽभिः । इ॒न्द्र॒ । तूयाणम् । त्वम् । अ॒स्मै॒ कुत्स॑म् । अ॒तिथि॒ग्वम् । आयुम । महे । राज्ञे । यूने॑ । अ- रन्धनाः ॥ १० ॥ हे इन्द्र व सुश्रवसम पूर्वमन्त्रे अबन्धुना सुश्रवसेत्युक्तम् अस- हायं दुर्बलम् एतन्नामानं राजानं तव ऊतिभी रक्षाभिः आविथ रर- क्षिप । तथा तस्यैव राज्ञोर्थाय तूर्वयाणम् एतत्संज्ञकं राजानं तव त्रा- मभिः पालनैः । अविथेति संबन्ध: । त्रै पालने । “आ- देव:" इति आत्त्तम । " आतो मनिन्" इति मनिन् । नित्त्वाद् आद्युदात्तत्वम् । एवं त्वम अस्मै सुश्रवसे राज्ञे । कीदृशाय । महे महते यूने वयःस्थाय युवराजभूताय सुश्रवसे कुसम अतिथिग्वम आयुं च अरन्धनायः वशम् अनैषीः । x रन्धनं वशीकरणं क- रोति । " तत् करोति ०" इति णिच् । “ इष्ठवण्णौ प्रातिपदिकस्य " इति terrarट्टलोपः । लङि सिपि दीर्घश्छान्दसः ४ ॥ एकादशी ॥ य उ॒दृची॑न्द्र दे॒वगो॑पा॒ सखा॑य॒स्ते शि॒वत॑मा॒ असा॑म । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघा॑य॒ आयु॑ः मत॒रं दधा॑नाः ॥ ११ ॥ ये । उ॒ऽॠच॑ । इन्द्र॒ । दे॒वगो॑पाः । सखा॑यः । ते । शि॒वत॑माः । असा॑म । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सुवीराः । द्राघा॒यः । आर्युः । म॒त॒रम् । द- धनाः ॥ ११ ॥ हे इन्द्र ये वयम् उहचि उदर्के यज्ञसमाप्तौ वर्तमाना देवगोपाः दे- वेन त्वया पालिताः ते तव सखायः सखिवद् अत्यन्तप्रियाः अत एव शिवतमा असाम अतिशयेन कल्याणा अभूम | ४ अस भुवि । लु- इथें लोटि " आडुत्तमस्य पिञ्च" इति पिह्नद्भावात् “ पिञ्च ङिन्न” इति ङित्वाभावे “नसोरल्लोपः" इत्यकारलोपाभावः । पित्वादेव तिsiनुदा- 1 S' अरंधनाय इति.