पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू०२३.] ६३९ विंशं काण्डम् | ६४३ आङ्- अरुषीः अरुष्यः । अरुषम् इति रूपनाम । आरोचमानाः । पूर्वाद् रुचेर्बाहुलकाद् उषच् । टिलोपः । आङो ह्रस्वश्च । “ अन्यतो ङीष् ” । वृषादित्वाद् आद्युदात्तः । उक्तरूपा हरयः अधि ब- र्हिषि । ४ अधिः सप्तम्यर्थानुवादी । बर्हिषि आस्तृते आ स- सृज्रिरे आससृजिरे आसृजन्तु । इन्द्ररथम इति शेषः । यत्र यस्मिन् बर्हिषि इन्द्रम् अभि संनवामहे अभिसंस्तुमः । नुस्तुतौ । “आ- डुत्तमस्य पिच " इति पित्त्वाद् धातुस्वरेण आद्युदात्तः ४ ॥ षष्ठी ॥ इन्द्रा॑य॒ गाव॑ आ॒शिरं दुदुहे व॒ज्रिणे॒ मधु॑ । यत् समुपच॒रे वि॒दत् ॥ ॥ इन्द्रा॑य॒ । गावः॑ । आ॒ शर॑म् । दुदुह्रे । व॒ज्रिणे । मधु॑ । यत् । सीम । उपह्वरे । विदत् ॥ ६ ॥ वज्रिणे वज्रयुक्ताय इन्द्राय गावो मधु मधुरम आशिरम् आश्रयण- साधनं पयः दुदुहे दुहते । दुह मपूरणे । " बहुलं छन्दसि " इति लिटि रूट् । वचनव्यत्ययः । प्रत्ययस्वरेण अन्तोदात्तः । यद्वा इरेच इकारलोपश्छान्दसः । चिंत्त्वाद् अन्तोदात्तः ॐ । यत् यदा उपहरे समीपे वर्तमानं मधु मधुवत् स्वादुभूतं सोमं सीम् सर्वतः विदत् स इन्द्रो लभते । ४ विदु लाभे । लदित्वाद् अङ् । “ बहुलं छन्द- सि० " इति अडभावः " निपातैर्यद्यदि०" इत्यादिना निघातप्रतिषेधः । प्रत्ययस्वरेण अन्तोदात्तः ४ ॥ [इति] तृतीयेनुवाके पञ्चमं सूक्तम् ॥ " आ तू न इन्द्र मद्र्यक्” इति सूक्तस्य अतिरात्रे मध्यमे रात्रिप- ये ब्राह्मणाच्छंसिनः शस्त्रे विनियोग उक्तः ॥ तत्र प्रथमा || आ तू न॑ इन्द्र यग्घुवानः सोमपीतये । हरिभ्या याद्रिवः ॥ १ ॥ 18 कित्वा.