पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४४ 66 अथर्वसंहिताभाष्ये आ । तु । नः । इ॒न्द्रः॑ । मद्र्य॒क् । हुवा॒नः । सोम॑ऽपीतये । हरि॑भ्याम् । हि॒ । आ॒दि॒वः ॥ १ ॥ " हे अद्रिवः । अद्भिरिति वज्रनाम । वज्रवन् इन्द्र हुवानः हूयमानस्त्वं मद्यक् मदभिमुखः सन् नः अस्मदीये यज्ञे सोमपीतये सोमपानार्थम् [ हरिभ्याम् ] आ याहि आगच्छ । & मद्यग् इति । माम अञ्चतीति 'ऋत्विग्दधृक्" इत्यादिना किन प्रत्ययः । " प्रत्ययोत्तरपदयोश्च ” इति अस्मच्छदस्यैकवचने मपर्यन्तस्य मादेशः । “विष्वग्देवयोश्च टेरद्र्यञ्चताव- प्रत्यये " इति टे: अद्रि इत्यादेशः । 'अद्विसध्योरन्तोदात्तनिपातनं कृ- स्वरनिवृत्त्यर्थम्” इति वचनाद् अध्यादेशोऽन्तोदात्तः । यणादेशे कृते “ उदात्तस्वरितयोर्यणः” इति यणः स्वरितत्वम् । " किन्प्रत्ययस्य कु: " इति कुत्वम् ४ ॥ 66 द्वितीया ॥ स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒िरे ब॒र्हिरा॑नु॒षक् । अयु॑ज्रन् मा॒तरद्र॑यः ॥ २ ॥ स॒त्तः । होता॑ । नः॒ । ऋ॒त्विय॑ः । ति॒स्ति॒रे । ब॒र्हिः । आनु॒षक् । अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥ २ ॥ हे इन्द्र नः अस्मदीये यज्ञे होता एतन्नामक ऋतिक ऋत्वियः प्रा- मकालः सन् । "छन्दसि घस्” इति घस् । यणादेशः । प्रत्य- यस्वरः । सतः निषण्णोभूत् । 8 कर्तरि कः । सर्वविधीनां छन्दसि विकल्पितत्वाद् निष्ठानत्वाभावः ४ । तथा बर्हिः वेद्याम आनुषक् अनुषक्तं परस्परसंबद्धं यथा भवति तथा तिस्तिरे स्तीर्णम् अ- भूत । ४. स्तृञः कर्मणि लिटि [ रूपम् ] | 'ऋत इद्वातो: " इति त्वम् । द्विर्वचनम् । “ शर्पूर्वाः खयः” इति "लिटस्तझयोरेशिरेच्” इति एश् इत्यादेशः । तकारस्य शेषः । एवं प्रातः प्रात:- सवने अद्रयः ग्रावाणः सोमाभिषवार्थम् अयुञ्जन् संगता अभूवन् ॥ 1 S' On 'नन्या'.