पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३, सू०२३.] ६३९ विंशं काण्डम् | तृतीया ॥ इमा ब्रह्मवाहः क्रियन्त आ बर्हिः सींद । वीहि शूर पुरोलांश॑म् ॥ ३॥ इ॒मा । ब्रह्म॑ । ब्र॒ह्म॒ऽवा॒ह॒ः । क्रियन्ते॑ । आ । ब॒र्हिः । सीद् । वी॒हि । शूर॒ पुरो॒लश॑म् ॥ ३ ॥ ६४५ हे ब्रह्मवाहः । ब्रह्मणा मन्त्रेण स्तोत्ररूपेण प्राप्यत इति ब्रह्मवाहाः । तस्य संबोधनम् । तादृश इन्द्र तुभ्यम् इमा इमानि ब्रह्म ब्रह्माणि स्तो- त्राणि अस्माभिः क्रियन्ते । अतस्तदर्थ बर्हिः आ सीद उपविश । हे शूर शौर्योपेत इन्द्र आसन्नस्त्वं पुरोलाशम् अस्माभिर्दीयमानं वीहि भक्षय ॥ चतुर्थी ॥ रन्धि सर्वनेषु ण एषु स्तोमे॑षु वृत्रहन् । विन्द्र गिर्वणः ॥ ४॥ र॒र॒न्धि । सव॑नेषु । नः॒ । ए॒षु । स्तोमे॑षु । वृत्र॒ऽह॒न् । उ॒क्थेषु॑ । इ॒न्द्र॒ । गिर्वणः ॥ ४ ॥ । हे गिर्वणः गीर्भिः स्तुतिभिर्वननीय इन्द्र हे वृत्रहन् वृत्रस्य हन्तः हे इन्द्र नः अस्माकं सवनेषु त्रिष्वपि एषु क्रियमाणेषु स्तोमेषु स्तोत्रेषु उ- क्येषु शस्त्रेषु च ररन्धि रमस्व । 8 रमतेर्लोटि "बहुलं छन्द- " सि” इति शपः शुः । " वा छन्दसि " इति है: पित्वेन ङित्वाभावाद् " अङितश्च" इति हेर्धिः ४ ॥ पञ्चमी ॥ म॒तय॑ः सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म् । इन्द्रे वासं न मातरः ॥ ५ ॥ १CK पुरोडाश॑म्. P पुरोडाश॑म् ।. KV पुरो॒ळाश॑म्. We with BDERS CAP J Ch. 18 ब्रह्मा. 25 om. 'भावा'.