पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू० २३. ] ६३९ विंशं काण्डम् | ६४७ उ॒त । त्वम् । अ॒स्मऽयुः । व॒सो इति॑ ॥ ७ ॥ हे इन्द्रवायवः त्वां कामयमाना वयं हविष्मन्तः दिसितेन सोमल- क्षणेन हविषा तद्वन्तः सन्तो जरामहे त्वां स्तुमः । त्वयव इति । इच्छार्थे क्यचि मपर्यन्तस्य त्वादेशे “क्याच्छंन्दसि " इति उप्रत्यये त्वद्यव इति प्राप्तौ “ युष्मदस्मदोरनादेशे " इति अविभक्तावपि हलादौ व्यत्ययेन आवम् । प्रत्ययस्वरः । उत अपि च हे वसो सर्वस्य वासक अस्मयुः अभिमतप्रदानाय अस्मान् कामयिता भव ॥ अष्टमी ॥ इन्द्र मारे अ॒स्मद् वि मु॑मु॒च॒ हरि॑प्रिया॒र्वाङ् या॑हि । इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ॥ ४ ॥ मा । आरे । अस्मत् । वि । मुमुचः । हरि॑ऽप्रिय । अ॒र्वाङ् । याहि । 1 इन्द्र॑ । स्व॒धा॒ऽव॒ः । मत्स्व॑ । इ॒ह ॥ ४ ॥ हे हरिप्रिय । हरी एतन्नामानावश्वौ प्रियौ यस्य स तथोक्तः । तस्य संबोधनम् । अस्मत् अस्मत्तः आरे दूरे मा वि मुमुचः । हरिप्रियेत्यु- तत्वाद् रथयुक्ताश्वौ मा विमोचय किं तु रथारूढ एव अर्वाङ् अस्म- दभिमुखं याहि आगच्छ । आगत्य च हे स्वधावः हविर्लक्षणेनान्नेन त- नन्द्र अस्मिन् देवयजने मत्स्व सोमपानेन हृष्टो भव । म- दि स्तुतीत्यादि । अस्य लोटि " बहुलं छन्दसि " इति विकरणस्य लुक् । आमन्त्रितस्य अविद्यमानवत्त्वाद् अनिघातः नवमी ॥ ॥ अ॒र्वाञ्च॑ त्वा सुखे रथे॒ वह॑तामिन्द्र केशिना । घृ॒तस्तू॑ ब॒र्हिरा॒सदे॑ ॥ ९ ॥ अ॒र्वाश्च॑म् । वा॒ । सुखे । रर्थे । वह॑ताम् । इ॒न्द्र॒ । शिना॑ । । ana इति॑ घृ॒त्रे । ब॒र्हिः । आ॒सदै ॥ ९ ॥ 1 S' त्या स्वायव इति. 28 बहुलं छंदसि.