पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४४ अथर्व संहिताभाष्ये इन्द्रवां सुखे शरीरापीडनेन सुखकरे रथे केशिना केशव- तौ स्कन्धप्रदेशे लम्बमानकेशयुक्तौ घृतस्त्र श्रमजनितस्वेदोदकस्त्राविणाव- वौ आसदे आसदनीयं बर्हिः अर्वाञ्चम अभिमुखं वहताम् प्रापय- ताम् । ४ घृतस्तू इति । घृतशब्दात् ष्णु प्रस्रवणे इत्यस्मात् संपदा - दिलक्षणः किप् । घृतस्य तु स्रवणं ययोस्ताविति बहुव्रीहौ पूर्वपदमकृ- तिस्वरेण मध्योदात्तः । आसदे । कृत्यार्थे केन प्रत्ययः । नित्स्वरः । कृ- दुत्तरपदप्रकृतिस्वरः ४ ॥ [इति ] तृतीयेनुवाके षष्ठं सूक्तम ॥ " उप नः सुतमा गहि” इति सूक्तस्य अतिरात्र एव मध्यमे रा- त्रिपर्याये ब्राह्मणाच्छंसिशस्त्रे विनियोग उक्तः ॥ तत्र प्रथमा ॥ उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् । हरि॑भ्या॒ यस्ते॑ अ॒स्मा॒युः ॥ १ ॥ । उप॑ । न॒ः । सु॒तम् । आ । ग॒हि॒ सोम॑म् । इ॒न्द्र॒ । गोऽआशिरम् । हरि॑भ्याम् । यः । ते । अस्मऽयुः ॥ १ ॥ " हे इन्द्र नः अस्मदीयं सुतम् अभिषुतं गवाशिरम् गव्यं पयः आश्र- यणसाधनं यस्य तम् । ४ आङ्पूर्वात् श्रीणातेः किपि “ अपस्पृधे- थाम् आनृचुः०” इत्यादिना शिरं इत्यादेशः । बहुव्रीहौ पूर्वपदस्व- तं सोमं प्रति उपा गहि समीपे आगच्छ । यतः हरिभ्याम् अश्वाभ्यां युक्तः ते तव रथेः अस्मयुः अस्मान् कामयमानो वर्तते ॥ T: I तमि॑न्द्र॒ मद॒मा ग॑हि द्वितीया ॥ हि॑ष्ठां ग्राव॑भिः सु॒तम् । कु॒विवा॑स्य तृ॒ष्णवः॑ः ॥ २ ॥ तम् । इ॒न्द्र॒ । मद॑म् । आ । गहि । ब॒र्हिः स्याम् । ग्रावेऽभिः । सुतम् । कु॒वित् । नु । अ॒स्य॒ । तृ॒ष्णव॑ः ॥ २ ॥ 18 शृणोतेः. 28 शिर. 3S यो रथः.