पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ५० अथर्व संहिताभाष्ये चदशादिस्तोमसाध्यैः स्तोत्रैः उक्थेभिः उक्थैः आज्यमउगादिशस्त्रसाध्या- भि: स्तुतिभिश्व हवामहे आह्वयामः । स च आहूत इन्द्रः कुवित ब- हुवारम आगमत् अस्मद्यज्ञं प्रति आगच्छतु । गमेलेंटि अडा- गमः । कुविद्योगाद् अनिघातः । 'आगमा अनुदात्ताः” इति अ- दोनुदात्तत्वाद् धातुस्वर: । “ तिङि चोदात्तवति" इति गतेर्निघातः ४ ॥ पञ्चमी ॥ इन्द्र सोमाः सुता इमे तान् देधिष्व शतक्रतो । जठरै वाजिनीवसो ॥ ५ ॥ इन्द्र॑ । सोमा॑ः । सु॒ताः । इ॒मे । तान् । द॒द्धिष्व । शतक्रतो इति॑ शतक्रतो । जठरे । वाजिनीवसो इति वाजिनीवसो ॥ ५ ॥ हे इन्द्र इमे ग्रहचमससंस्थिताः सोमाः सुताः त्वदर्थम् अभिषवादिना संस्कृताः हे शतक्रतो बहुकर्मन हे वाजिनीवसो अन्नधन | यहा वाजः अन्नं फलरूपम् आस्विति वार्जिन्यः क्रियास्तासां वासक इन्द्र । 8 वा- जशब्दान्मत्वर्थीय इनिः । 66 ऋनेभ्यः ० " इति ङीप् । तासां व- सो । 66 " संबुद्धौ च " इति गुणः ४ । दर्थम् अभि- तान् सोमान् जठरे दधिष्व धारय ॥ षष्ठी ॥ वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृषं क॑वे । अधा॒ ते सु॒म्नमी॑महे ॥ ६ ॥ वि॒द्म । हि । । धनमऽज॒यम् । वाजे॑षु ! द॒धृषम् । कवे । अध॑ । ते॒ । सु॒म्नम् । इ॒महे॒ ॥ ६ ॥ हे कान्तज्ञ इन्द्र वा त्वां वाजेषु संग्रामेषु दधृषम् अतिशयेन शत्रुधर्षकं धनंजयम् शत्रुधनस्य जेतारं विद्म जानीमः । अध अतः का- रणात् ते तव सुम्नम सुखं सुखकरं धनं वा ईमहे याचामहे । 1S वाजिनः. ध-