पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ५२ अपर्वसंहिताभाष्ये नां छन्दसि विकल्पितत्वाद् अभ्यासस्य नुगभावः । संहितायाम् " अन्ये- षामपि दृश्यते " इति अभ्यासस्य दीर्घः ४ ॥ नवमी ॥ त्वां सु॒तस्य॑ पी॒तये॑ म॒मि॑िन्द्र हवामहे । कुशि॒कास अव॒स्यवः॑ ॥ ९ ॥ त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प॒लम् । इ॒न्द्र॒ । ह॒वामहे॒ । कुशि॒कास॑ः । अ॒व॒स्यवः॑ ॥ ९ ॥ हे इन्द्र प्रलम् पुरातनं त्वां सुतस्य अभिषुतस्य सोमस्य पीतये पा- नाय कुशिकासः कुशिकगोत्रोत्पन्ना वयम् अवस्यवः रक्षाकामाः सन्तो हवामहे आह्वयामः । ४ कुशिकासो अवस्यव इत्यत्र संहितायाम् “अव्यादवद्यादवक्रमुरवतायमवन्त्ववस्युषु च " इति एङः प्रकृतिभावः ४ ॥ [इति] तृतीयेनुवाके सप्तमं सूक्तम ॥ " अश्वावति प्रथमः” इति सूक्तस्य अतिरात्रे ऋतौ मध्यमे रात्रिपर्याये ब्राह्मणाच्छंसिशस्त्रे विनियोग उक्तः । अस्यान्तिमा " बर्हिर्वा यत्" [६] इत्येषा परिधानीया ॥ तत्र प्रथमा || अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सु॒मा॒वीरि॑न्द्र॒ मये॒स्तवो॒तिभि॑ः । तत् पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धुमापो॒ यथा॒भितो॒ विचे॑तसः ॥ १ ॥ अश्व॑ऽवति । प्र॒थ॒मः । गोषु॑ । गच्छति । सुप्र॒ऽअ॒वीः । इन्द्र॒ । मत्यैः । त- । ऊतिभिः । तम् । इत् । पृ॒ण॒सि॒ । वसु॑ना । भवयसा । सिन्धु॑म् । आप॑ः । यथा॑ । अ- भितः । विऽचैतसः ॥ १ ॥ हे इन्द्र यो मर्त्यस्तवोतिभिः रक्षाभिः सुप्रावी: सुष्ठु रक्षितो भवति स मर्त्यः अश्वावति बहुभिरश्वैस्तद्वति युद्धे यद्वा बह्वश्वोपेते जने । बह्व- श्ववत्सु इत्यर्थः । तेषु प्रथमः मुख्यः सन् गच्छति मुख्यो भवति । त-