पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू०२५.] ६४१ विंशं काण्डम् । ६५३ था गोषु गोमासु प्रथमो गच्छति । बहुपशुको भवतीत्यर्थः । त्वमपि भवीयसा बहुतरेण भवितृतमेन वा । बहुभावं प्राभुवता | भ- वितृशब्दात् " तुश्छन्दसि " इति ईयसुन । लोपः । पृक्तं करोषि । " 'तुरिष्ठेमेय: सु" इति नृ- वसुना धनेन अभितः तति तमेव पुरुषं पृणक्षि सं-

  • पृची संपर्के । रौधादिकः ४ । तत्र दृष्टान्तः ।

यथा विचेतसः । विशिष्टज्ञानसाधना आपः यथा अभितः सिन्धुम स- मुद्रं पूरयन्ति तत् ॥ द्वितीया || आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रज॑ः । प्रा॒चैर्दे॒वास॒ प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒मिय॑ जोषयन्ते व॒रा इ॑व ॥ २ ॥ आप॑ः । न । दे॒वीः । उप॑ य॒न्ति॒ि । होत्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ । विऽत॑ - तम् । यथा॑ । रर्जः । प्राचैः । दे॒वास॑ः । । नयन्ति । दे॒व॒ऽयुम् । ब्र॒ह्मऽप्रिय॑म् । जो॒षयन्ते॒ । व- राःऽईव ॥ २ ॥ हे इन्द्र होत्रियम् होत्रा वाम आपो न देवी: द्योतमाना आपो यथा उपयन्ति उपगच्छन्ति निम्नं प्रदेशं समुद्रादिकं वा एवम् उप यन्ति लाम् उपगच्छन्ति । सामर्थ्यात् स्तुतयः स्तोतारो वेति लभ्यते । तथा अवः पश्यन्ति अवः अवस्तात् पश्यन्ति । तव स्वरूपं द्रष्टुम् अशक्ता इत्यर्थः । तत्र दृष्टान्तः । [ यथा ] विततम् विस्तृतं रजः । ज्योती रज उच्यत इति निरुक्तम् [ ४.१९] ४ । सर्वतो व्यानं सावित्रं तेजो यथा द्रष्टुम् अशक्ता अवस्तात् पश्यन्ति तद्वत् । किं च देवासः स्तोतार ऋत्विजः त्वां प्राचैः प्राचीनं प्रणयन्ति वेद्यभिमुखं गमयन्ति । यद्वा दर्थं सोमम् अग्निं च प्राञ्चं प्रणयन्ति । ब्रह्मप्रियम् । ब्रह्म परिवृढं स्तोत्रं कर्म वा । तत् प्रियं यस्य स तादृशं त्वां वरा इव यथा वराः कन्या जोषयन्ते एवम् ऋत्विजो जोषयन्ते सेवन्ते ॥ 1 ' भवति'.