पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ५४ अथर्वसंहिताभाष्ये तृतीया ॥ अधि॒ द्वयो॑रदधा उ॒क्थ्य॑ ते॒ वचो॑ य॒तनु॑चा मिथुना या स॑प॒र्यत॑ः । अस॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥ ३ ॥ अर्ध । द्वयोः । अद्धाः । उ॒क्थ्य॒मि । वच॑ः । य॒तऽनु॑चा । मि॑िथु॒ना । या । । सपर्यत॑ः । अस॑म॒ऽयत्तः । व्र॒ते । ते॒ । त्रे॒ति॒ पुष्य॑ति । भ॒द्रा । शक्तिः । यज॑मानाय । सुन्व॒ते ॥ ३ ॥ हे ब्राह्मणाच्छंसिन् द्वयोर्हविर्धानयोश्छदिष्मतोरधि उपरि उक्थ्यम उ- क्थं स्तोत्रं तद्योग्यं वचः " युजे वां ब्रह्म" [१४. ३. ३९ ] इत्यादिरूपम उ- भयोर्मध्यवर्ति तृतीयच्छदिः स्थानीयं वचः वचनम् अध्यदधाः निहितवान् असि । उभे हविर्धाने विशेष्येते । यतस्रुचा यताः संबद्धाः स्रुचः ग्रह- चमसादिलक्षणा यज्ञसाधनानि पात्राणि ययोस्ते तादृग्रूपे मिथुना युग- लरूपेण वर्तमाने [ या] ये हविर्धाने । ४ सर्वत्र “सुपां सुलुक्” इति विभक्तेराकारः ष्ठ । ताशे हविर्धाने सपर्यतः इन्द्रं पूजयतः । सोम- पानोचितपात्रधारणद्वारेणेति भावः । तयोरधीति पूर्वत्रान्वयः ॥ किं च हे इन्द्र ते तव कर्मणि त्वदुद्देश्ये यागे यजमानः असंयत्तः व्यापारान्त- रेष्वसंबद्धः सन् क्षेति निवसति पुष्यति आत्मानं प्रजापश्वादिना । सुन्वते दर्थम् अभिषवं कुर्वते यजमानाय । षष्ठ्यर्थे चतुर्थी ४ । भद्रा कल्याणी शक्तिः बलम् अस्तु । त्वदनुग्रहाद् इति शेषः ॥ अयं मन्त्र " अधि द्वयोरधा उक्थ्यं वच इति । द्वयो- ऐतरेय ब्राह्मणे व्याख्यातः । 'ह्येतत् तृतीयं छदिरधिनिधीयते ॥ उक्थ्यं वच' इति यदाह यज्ञियं वै क- 'मक्थ्यं वचो यज्ञमेवैतेन समर्धयति ॥ यतस्रुचा मिथुना या सपर्य- << 66 । तस्य “तः ॥ असंयत्तो व्रते ते क्षेति पुष्यतीति । यदेवादः पूर्वे यशवत् पदम 66 'आह तदेवैतेन शान्त्या शमयति ॥ भद्रा शक्तिर्यजमानाय सुन्वत इ- 'त्याशिषम् आशास्ते" इति [ ऐ० ब्रा० १.२९]॥ 1 S' तदाह.