पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ अथर्वसंहिताभाष्ये अ॒पाम् । नपा॑तम् । अ॒श्विना॑ हुवे॒ । धिय॑ः । इ॒न्द्रि॒येण॑ । ते । इ॒न्द्रि॒यम् । । द॒त्तम । ओज॑ः ॥ ४ ॥ । " यज्ञियानाम् यज्ञार्हाणां देवानां मध्ये वृषभम श्रेष्ठम् । सर्वेषां दे- वानां स्वामित्वाद् यज्ञेषु इन्द्रेण विना सोमादिहविः संबन्धाभावाच्च यज्ञि- [ तै० येषु वृषभत्वम् । “अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे " सं॰ ४. ७, ६. १ ] इत्यादिषु सर्वत्र इन्द्रस्य प्रतिदेवतम् अनुप्रवेशाद् “यत् सर्वेषाम अर्धम् इन्द्रः प्रति तस्माद् इन्द्रो देवतानां भूयिष्ठभातम: ' इति श्रुतेः [ तै० सं०५.४ ४.३] “माध्यंदिनं सवनं केवलं ते " [ ऋ० ४.३५.७] इति मन्त्रवर्णाच्च इन्द्रस्य यज्ञियेषु सर्वत्रानुगतेर्वृषभत्वम् । अत एव अध्वराणाम् यज्ञानां मध्ये विराजन्तम् विशेषेण दीप्यमानं प्रथमम् मुख्यम् । अथ वा अध्वराणां प्रथमम् आदिभूतम् । तेषाम् इन्द्रार्थत्वात् । एवंमहानुभावम् इन्द्रं हुवे इति संबन्धः । अपि च अ- पां नपातम् उदकानां न पातयितारं स्रष्टारम । अग्नौ हुतया आहुत्या वृष्टयुत्पत्तेः " अग्नेरापः” इति श्रुतेश्च [ तै० आ० ८.१ ] । अथ वा अपां नप्तारम् अद्भ्य ओषधयः [ ओषधीभ्योग्निर्जायत इति प्रसिद्धम् । अग्निं तथा अश्विना अश्विनौ हुवे आह्वयामि । तावश्विनौ इन्द्रियेण इन्द्रसा - मन ते तव ] धियम् प्रकृष्टां बुद्धिम इन्द्रियम् दर्शनश्रवणादिसामर्थ्यम् ओजः बलं च धत्तम् धारयतां प्रयच्छताम् ॥ इति पञ्चमेनुवाके नवमं सूक्तम् ॥ " यत्र ब्रह्मविदः" इति दशमं सूक्तम् ॥ तत्र प्रथमा ॥ यत्र॑ ब्रह्म॒विद॒ यान्ति दी॒क्षया॒ तप॑सा स॒ह । अ॒ग्निर्मा तत्रं नयत्व॒ग्निर्मेध द॑धातु मे । अ॒ग्नये॒ स्वाहा॑ ॥ १ ॥ यत्र॑ । ब्र॒ह्म॒ऽविद॑ः । यान्तं । दी॒क्षया॑ । तप॑सा । स॒ह । अ॒ग्निः । मा॒ । तत्र॑ । नयतु । अ॒ग्निः । मेधः । धा॒तु । मे ॥ अ॒ग्नये॑ । स्वाहा॑ ॥ १ ॥ १ AKKVD मेघां. PJ मेघा । मेघाम ।. We with BCDRS CH. 1 Sayan's text, however, has प्रप्तम्-