पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५, सू० ४३.] ५८७ एकोनविंशं काण्डम् । ४४९ " यत्र यस्मिन् स्थाने सुकृतफलभोगाश्रये ब्रह्मविदः सगुणब्रह्मस्वरूपं जा- नन्तः । अथ वा ब्रह्म परिवृढं कर्म तद्विदः तद्विषयज्ञानवन्तो महान्तो दीक्षया दण्डकृष्णाजिन मेखलादिधारणात्मिकया । " दण्डेन दीक्षयति” । “मेखलया दीक्षयति" [तै० सं० ६.१.३.५] " कृष्णाजिनेन दीक्षयति' [ तै० सं० ६.१.३.२] इत्यादिश्रुतेः । तप॑सा सह पयोव्रतादिनियमजन्येन सह यान्ति गच्छन्ति । उपलक्षणम् एतत् । दीक्षातप आदिधर्मोपेतेन अ- निमादिकर्मणेत्यर्थः । तत्र तत् स्थानम् अग्निर्देव: [ मा ] नयतु प्राप- यतु गंमयतु । तदर्थम् अग्निर्देव एव मे मह्यं मेधाः तद्विषयमज्ञा दधातु प्रयच्छतु ॥ अग्नये स्वाहा य एवं स्वर्ग गमयति यश्च मेधां प्रयच्छति तस्मा अग्नये स्वाहा इदं हविः स्वाहुतम् अस्तु ॥ द्वितीया ॥ यत्र॑ ब्रह्म॒विद॒ो यान्ति दी॒क्षया॒ तप॑सा स॒ह । वा॒युर्मा॒ तत्रं नयतु वा॒युः प्राणान् द॑धातु मे । वा॒यवे॒ स्वाहा॑ ॥ २ ॥ यत्रे । ब्रह्म॒विद॑ः । यान्ति । दी॒क्षया॑ । तप॑सा । स॒ह । वा॒युः । मा॒ । तत्र॑ । न॒य॒तु । वा॒युः । प्रा॒णान् । धातु । मे ॥ वा॒यवे॑ । स्वाहा॑ ॥ २ ॥ पूर्वार्धर्चः पूर्ववद् व्याख्येयः । तृतीयपादे अग्निरित्यस्य स्थाने वायुरिति विशेषः । तादृशो वायुः मे मम प्राणान् दधातु मयि स्थापयतु । अत्र प्राणान् इति बहुवचनेन प्राणापानादयः पञ्च माणा ग्राह्याः । वायोः प्राणानां च बाह्याभ्यन्तरभेदमात्रेण भेदात् 'वायुः प्राणो भूत्वा ना- सिके प्राविशत् " [ ऐ० आ०२, ४.२] इति श्रुतेः वायोः प्राणस्थापनप्रा- ना युक्ता ॥ वायवे स्वाहेति स्पष्टम् ॥ तृतीया ॥ 66 यत्र ब्रह्मविद्यान्ति दीक्षया॒ तप॑सा स॒ह । सूर्यो मा तत्र नयतु चक्षुः सूर्यो॑ दधातु मे । सूर्या॑य॒ स्वाहा॑ ॥ ३ ॥ यत्रे । ब्रह्मविद॑ः । यान्तं । दी॒क्षया॑ । तप॑सा । स॒ह । । 1 S' पयसोसा for तपसा सह. ५७ 2 S' यमयतु. BS वाह्यायाद्या° for बाह्या'.