पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० अथर्वसंहिताभाष्ये सूर्यैः । मा॒ । तत्र॑ । न॒य॒तु॒ । चक्षु॑ः । सूर्यैः । धा॒तु । मे ॥ सूर्या॑य । स्वाहा॑ ॥ ३ ॥ 66 " 'आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत् ” [ ऐ० आ० २.४.२] इति श्रुतेः सूर्यस्य चक्षुरानुकूल्यं युक्तम् ॥ गतम् अन्यत् ॥ चतुर्थी ॥ यत्रे ब्रह्मविदो यान्ति दीक्षया॒ तप॑सा स॒ह । च॒न्द्रमा॒ तत्र॑ नयतु॒ मन॑श्च॒न्द्रो द॑धातु मे । च॒न्द्राय॒ स्वाहा॑ ॥ ४ ॥ यत्र । ब्रह्मविदः । यान्ति । दी॒क्षया॑ । तप॑सा स॒ह । 1 च॒न्द्रः । मा॒ । तत्र॑ । न॒य॒तु॒ । मन॑ः । च॒न्द्रः । धा॒तु । मे ॥ च॒न्द्राय॑ । स्वाहा॑ ॥४॥ [ चन्द्रः प्रसिद्धः । तस्य मनआह्लादकत्वाद् मनस आनुकूल्यं युक्तम् ॥ ] पञ्चमी ॥ यत्र॑ ब्रह्मविद्यानि॑ दी॒क्षया॒ तप॑सा स॒ह । सोमो॑ मा॒ तत्र॑ नयतु॒ पय॒ः सोमो॑ दधातु मे । सोमा॑य॒ स्वाहा॑ ॥ ५ ॥ यत्रे | ब्रह्मविदः । यान्ति । दी॒क्षया॑ । तप॑सा स॒ह । 1 सोम॑ः । मा॒ । तत्र॑ । न॒य॒तु॒ । पय॑ः । सोम॑ः । धा॒तु । मे॒ ॥ सोमा॑य । स्वाहा॑ ॥ ५ ॥ सोमोत्र अभिषूयमाणो वल्लीरूपः परिगृह्यते तस्य चं " सोमो वा ओषधीनां राजा" इति [ तै० ना° ३. ९, १७.१] श्रुतेः ओषधीनां सो- मस्य च रसात्मकत्वात् पयःस्थापकत्वं युक्तम् ॥ षष्ठी ॥ ब्रह्मविद यान्ति दीक्षया॒ तप॑सा स॒ह । इन्द्रो॑ मा॒ तत्र॑ नयतु॒ बल॒मिन्द्रो॑ दधातु मे । इन्द्रा॑य॒ स्वाहा॑ ॥ ६ ॥ । 1 | ब्रह्मविदः । यान्ति । दी॒क्षया॑ । तप॑सा स॒ह । 1 इन्द्र॑ । मा॒ । तत्र॑ । नयतु । बल॑म् । इन्द्र॑ः । द॒धातु । मे ॥ इन्द्रा॑य॒ स्वाहा॑ ॥ ६ ॥ १$ omits the portion from मन॑श्च॒न्द्रो &c. of this verse up to तत्रं नयतु in the next one, both inclusive 3D चंद्राय ३ P चंद्राय 1. J चंद्राय | changed to चंद्राय॑ ।. 1 $ has तस्य च यः for तस्य च. 2S स्थापकत्वमुक्तं for 'स्थापकत्वं युक्तम्.