पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५. सू० ४४] १८ एकोनविंशं काण्डम् । इन्द्रस्य बलरूपत्वं श्रुतिस्मृतिप्रसिद्धम् ॥ सप्तमी ॥ · यत्र ब्रह्मविदो यान्ति दीक्षया तप॑सा स॒ह । आपो॑ मा॒ तत्र॑ नय॑त्व॒मृतं॒ मोप॑ तिष्ठतु । अ॒द्भ्यः स्वाहा॑ ॥ ७ ॥ यत्र॑ । ब्रह्म॒ऽविद॑ः । यान्ति । दी॒क्षया॑ । तप॑सा । स॒ह । ४५१ आप॑ः । मा । तत्र॑ । नय॑तु । अ॒मृत॑म् । मा॒ उप॑ । तिष्ठतु ॥ अ॒त्ऽभ्यः । स्वाहा॑॥७॥ ८८ 'अमृतं वा आपः " इति [ तै० आ०१.२६.७] श्रुतेः गतप्राण- स्यापि उदकसंबन्धेन आप्यायनसंभवाद् अपाम अमृतप्रदानप्रार्थना यु- ज्यते । मा माम अमृतम् उप तिष्ठतु प्राप्नोतु ॥ अष्टमी ॥ यत्र॑ ब्रह्मविद॒ यान्ति दी॒क्षया॒ तप॑सा स॒ह । ब्रह्मा मा तत्र॑ नयतु ब्र॒ह्मा ब्रह्म॑ दधातु मे । ब्र॒ह्मणे॒ स्वाहा॑ ॥ ४ ॥ यत्रे । ब्रह्म॒विद॑ः । यान्ति । दी॒क्षया॑ । तप॑सा । स॒ह । ब्र॒ह्मा । मा॒ । तत्र॑ । नयतु । ब्र॒ह्मा । ब्र॒ह्म॑ । द॒धातु । मे ॥ ब्र॒ह्मर्णे । स्वाहा॑ ॥ ७ ॥ - 1 । [ ब्रह्मा] जगत्स्रष्टा हिरण्यगर्भः ब्रह्म स्वस्वरूपभूतं श्रुताध्ययनजन्यं तेजो वा दधातु ॥ ८८ इति पञ्चमेनुवाके दशमं सूक्तम् ॥ आयुषोसि " इति एकादशं सूक्तम । अनेन सूक्तेन उत्तरेण च " नैर्ऋतीं निर्ऋतिगृहीतस्य " इति [ न०क० १७.] विहितायां नैर्ऋत्या- ख्यायां महाशान्तौ आञ्जनमणिम अभिमन्त्र्य बभीयात् । उक्तं हि न- क्षत्रकल्पे । “हरिणस्येति [ ३.७] विषाणाग्रं कौमार्याम | आयुषोसि प्र- तरणम् [१९.४४] इत्याञ्जनं नैर्ऋत्याम्" इति [ न०क०१९] ॥ So ABCDKKRSV De Cs and PPJ, and even Sayana's text. 1S' नैऋती.