पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ अथर्व संहिताभाष्ये बहु अनृतम् प्रातः प्रभृति शयनकालपर्यन्तम् अपरिमितम् असत्यम आह ब्रूते । तद् अनृतं त्वं क्षमस्व तत्प्रयुक्तां शिक्षां मा कुरु । किं च हे सहस्रवीर्य आञ्जनौषधे त्वं तस्मात् वरुणशिक्षानिमित्तभूताद् अनृतवदनप्र- युक्ताद् अंहसः पापाद् नः अस्मान् परि मुञ्च परितः सर्वतो मुक्तान कुरु ॥ अष्टमी ॥ दापो॑ अ॒या इति॒ वरु॒णेति॒ यद्व॑चि॒म । तत् सहस्रवीर्य मुञ्च नः पर्येह॑सः ॥ ९ ॥ यत् । आर्यः । अन्याः । इर्त । वरु॑ण । इर्ति । यत् । ऊचिम । । । तस्मा॑ स॒ह॒स्रुवर्य । मुञ्च । न॒ः । परि॑ । अंह॑सः ॥ ९ ॥ आपो यूयं जानीध्वे साक्षितया यद् ऊचिम उक्तवन्तः स्मः । तथा अझ्या इति । अया अहन्तव्या गाव उच्यन्ते । हे अन्याः यूयं मम चित्तं जानीध्व इति यद् ऊचिम । तथा हे वरुण त्वं जानासीति यद् चिम | हे सहस्रवीर्य अपरिमितसामर्थ्य त्रैककुदार्जन तस्मात् सर्वस्माद् अंहसः नः अस्मान् परि मुञ्च ॥ नवमी ॥ मि॒त्रश्च॑ त्वा॒ वरु॑ण॒श्चानुप्रेय॑तु॒राञ्जन । तौ त्वा॑नु॒त्य॑ दूरं भोगाय॒ पुन॒रोहि॑तुंः ॥ १० ॥ मि॒त्रः । च॒ । त्वा॒ । वरु॑णः । च॒ अनु॒ऽमेय॑तुः । आ॒ऽअञ्जन । तौ । त्वा॒ अनु॒ऽगय॑ । दू॒रम् । भोगाय॑ । पुन॑ः । आ । ऊ॒ह॒तुः ॥ १० ॥ हे आजन ओषधे त्वा त्वां मित्रश्च वरुणश्च उभौ अहोरात्राभिमा- निनौ देवौ द्युलोकाद् भूमिम् आगत्य पुनः केनचिन्निमितेन पराङ्मुखं गच्छन्तं त्वा वाम अनुप्रेयतुः अनुसृत्य जग्मतुः । तौ मित्रावरुणौ {B DE$ C वरु॑ण॒°. V वरु॑ण॒° though he recites अनुऽप्रेय॑तुः in the padas. We with ACK KDPJ ABCDKKR ŚVDC C पुर्नरोहतु V पुर्नराहतुः with Säyana and Säyana's text. PP J पुन॑ः । रोहतु । 1 S' जानीध्व. 2S स्म. 38/ दांजान 18 ततस्मात्.