पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५. सू० ४५] ५८९ एकोनविंशं काण्डम् । ,, अ॒ग्निः । मा । अ॒ग्निना॑ । अवतु । प्रा॒णाय॑ अ॒पा॒नाय॑ । आयु॑षे । 1 वर्च॑से । ओज॑से । तेज॑से । स्व॒स्तये॑ । सुऽभूतये॑ । स्वाहा॑ ॥ ६ ॥ ४६१ अग्निः अग्रणीत्वादिगुणविशिष्टो देवो मा माम् अग्निना अग्नि- र्मेण । “अग्निः कस्माद् अग्रणीर्भवत्यग्रं यज्ञेषु प्रणीयतेङ्गं नयति संनम- मानः” [नि०७, १४] इत्यादिनिरुक्तोक्तेन धर्मेण अवतु रक्षतु । अथ वा पावकादिगुणकेन स्वमूर्त्यन्तरेण अग्निना सहितो माम् अवतु । अवनस्य विषयान् दर्शयति प्राणायेत्यादिना । प्राणाय प्राणस्थैर्याय अपानाय त- स्थैर्याय । एतद् व्यानादीनामपि उपलक्षणम् । पञ्चानां प्राणानां ला- भायेत्यर्थः । प्राणादिलाभे सति फलितम् अर्थ दर्शयति । आयुधे आ- युर्बुद्धये प्राणादीनां स्थैर्ये सिद्धे आयुरभिवृद्धिः सिद्धैव । वर्चः श्रुताध्य- यनजं तेजः ओजः बलम् तेजः शरीरकान्तिः तेषां लाभाय स्वस्तये क्षेमाय सुभूतये शोभनायै संपदे । स्वाहा स्वाहुतम् अस्तु । तस्मा अग्नय इति शेषः । अथ वा प्राणादिलाभाय प्राणादिदेवताभ्यो नमस्कारः क्रियते ॥ सप्तमी ॥ इन्द्रो॑ मेन्द्रि॒येणा॑वतु प्रा॒णाय॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से॒ स्व॒स्तये॑ सु॒भूतये॒ स्वाहा॑ ॥ ७ ॥ इन्द्र॑ः । मा॒ । इ॒न्द्रि॒येण॑ । अवतु । प्रा॒णाय॑ । अपा॒नाय॑ । आयु॑षे । वर्च॑से । ओज॑से । तेज॑से । स्व॒स्तये॑ । सुऽभूतये॑ । स्वाहा॑ ॥ ७ ॥ इन्द्रो देवः मा माम इन्द्रियेण इन्द्रत्वसंपादकेन असाधारणेन धर्मेण । " इन्द्र इरां दृणातीति वा । इरां दारयतीति वा । इन्धे भूतानीति वा" [ नि० १०.७ ] इत्यादिनिरुक्तोक्तेन धर्मेण । अथ वा इन्द्रियेण । जात्येकवचनम् । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च दायेन निमित्तेनेत्य- र्थः । ४ इन्द्रियशब्दः पाणिनिना “ इन्द्रियम् इन्द्रलिङ्गम इन्द्रह- इति बहुधा व्युत्पा- टम इन्द्रसृष्टम इन्द्रजुष्टम् इन्द्रदत्तम् इति वा ' दितः । गतम् अन्यत् ॥ 1 S' अग्नि for अग्निना. "