पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ अथर्व संहिताभाष्ये अयं मणिविशेषः सर्वान् दुर्नाम्नः ग्रोगभेदान् सर्वान् तृड्ढा हिंसा रक्षांसि राक्षसान् अवाक्रमीत न्यकार्षीत् आक्रमतु ॥ षष्ठी ॥ श॒तम॒हं दु॒र्णाम्ननां गन्धर्वाप्स॒रता॑ श॒तम् । शतं शश्वन्वतीनां शतवारेण वारये ॥ ६ ॥ श॒तम् । अ॒हम् । दुःऽनाम्नी॑नाम् । ग॒न्धर्वऽअ॒प्स॒रसम् । श॒तम् । श॒तम् । श॒श्व॒न्ऽवती॑नाम् । श॒तऽवरेण । वा॒रये ॥ ६॥ अहं दुर्नाम्नीनाम दुर्नाम्नीरोगभेदानां श्वित्रदद्रूपामादीनां व्याधीनां श- तम् । व्याध्यपेक्षया दुर्नाम्नीति स्त्रीलिङ्गनिर्देशः । " अन उप- धालोपिनोऽन्यतरस्याम्" इति ङीप् । शतवारेण वारय इति सं- बन्धः । एवं गन्धर्वाप्सरसाम् गन्धर्वा अप्सरसश्च अन्तरिक्षसंचारिणो दे- वयोनयो मनुष्यान् वत्यर्थे गृह्णन्ति । अप्सरस इति नियतं बहवः स्त्री- लिङ्गाभिधेयाश्च । तेषां शतं वारये निवारयामि । तथा शश्वन्वतीनाम | मुहुर्मुहुः पीडार्थम आगन्त्यो ग्रहापस्माराद्या व्याधयः शश्वन्वत्यः । द- कारस्य नकारोपजन: । तासां शतं [ शतवारेण] वारये । यतोयं शत- वाराह्वः अतः शतस्य वारकत्वं युक्तम् इति भावः ॥ पञ्चमेनुवा तृतीयं सूक्तम ॥ " इदं वर्चः" इति चतुर्थ सूक्तर्म ॥ १ ABCDR गन्ध', We with KKS VDC PP J. 1 $' तो fior त्वो 25' तद्वा. 3S निकर्षिः 45/ दुनाम्नीरभेदानीं 58 insert- शतं after 'दद्रूपामादीनां 68 gives no riniyoga of this hymn here. Some such as the following introduction was perhaps required: अस्य सूक्तस्य " त्वाष्ट्र वस्त्रक्षये" इति [ न° क° १७ ] विहितायां महाशान्ती त्रिवृन्मणिबन्धने विनियोगः । तद् उक्तं नक्षत्रकल्पे । " इदं वर्च इति त्रिवृतं त्वाष्ट्रयाम्" इति [न क° १९] ॥ Sayana does not appear to have been conscious that the hymn was about the tritrinamani, as otherwise he would not have spoken of the object as merely प्रतिग्रहविषयभूत पदार्थ (verse 3 ) and पदार्थ ( verse 4 ). Diil he doubt the correctness of the directions in the Nakshatru-Kalyat on the hymn?