पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ अथर्व संहिताभाष्ये उ- शस्त्रादिकृतबाधा । निहननं नाम प्रोणवियोजनम् इति विवेकः । महरन्तः प्रकर्षेण शस्त्रादिभिर्बाधमानाः निघ्नन्तः नितरां हिंसन्तो मारयन्तः ।- भयत्र हेत्वर्थः शतृप्रत्ययः ४ । महरणान्निहननाच्च हेतोः न तस्तिरे [न] तस्तरिरे नाच्छादितवन्तः । यद्वा महरन्तो निम्नन्तोपि शत्रवः न तस्तरिरे न जिहिंसुः । मणिरेव कर्म । अस्तृतमणेः अस्तृतनामनिर्वच- नम अनेन क्रियते । यतः शत्रवः उक्तलक्षणा इमं मणि न तस्तरिरे बाधितुं नावृण्वन् न जिहिंसुर्वा अतः अस्य अस्तृतनाम संपन्नम् ।

  • स्तृञ्

छादने स्तृञ् हिंसायाम् इति वा । उभयविधाद् धातोछान्दसे लिटि 'लिटस्तझयोरेशिरेच्” इति इरेजादेशः । वर्णलोपश्छान्दसः ४ । इ- न्द्रः तस्मिन् एवं शत्रुभिरनावृते अहिंसिते अस्तृताख्ये मणी अन्तः मध्ये चक्षुः शत्रुदर्शनसामर्थ्यं प्राणम बलहेतुम अथो अपि च बलम् प्राणसा- म वीर्य परि यत् पर्यगमयत् परिपूरितवान् । स्थापितवान् इत्यर्थः ॥ अस्तृतस्त्वाभि रक्षतु इति पूर्ववत् । एवम उक्तविधः अस्तृताख्यमणिस्वां धारकं रक्षतु इति तस्यार्थः ॥ 66 चतुर्थी ॥ इन्द्र॑स्य वा॒ वर्म॑णा॒ परि॑ धापयामो॒ यो दे॒वाना॑मधिरा॒जो ब॒भूव॑ । पुन॑स्त्वा दे॒वाः प्रण॑यन्तु॒ सर्वे॑स्तृ॒तस्त्वाभि र॑क्षतु ॥ ४ ॥ इन्द्र॑स्य । वा॒ । वर्म॑णा । परि॑ धा॒प॒यासः॒ः । यः । दे॒वाना॑म् । अधि॒ऽराजः । ब॒भूव॑ । पुन॑ः । त्वा॒ । दे॒वाः । प्र । न॒यन्तु । सर्वै । अस्तृ॑तः । त्वा॒ । अभि । रक्षतु ॥ ४ ॥ । हे मणे वा इन्द्रस्य वर्मणा कवचेन परि धापयामः परित आवृण्मः । इन्द्रवर्माच्छादितं कुर्मः । इन्द्रस्य प्रभावातिशयं द्योतयितुं विशिनष्टि । यो देवानाम् द्योतमानानां द्युस्थानानां सर्वेषाम् अवरा- णाम् अधिराजः अधिपतिर्बभूव । ४ “ राजाहः सखिभ्यष्टच्” इति राजशब्दात् तत्पुरुषे टच् समासान्तः किं च हे मणे । 1 S' प्राणवियोजनं नामाजनमिति विवेकः. 2 S' प्रकरणानि अन्यच्च हेत्वो न निरस्तिरे. 3 S' f for .