पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०६. सू० ४६. ] ५९० एकोनविंशं काण्डम् । ४६७ इन्द्रवर्माच्छादितम् देवाः इन्द्रस्वामिकाः सर्वे पुनः प्रणयन्तु स्व- स्वकार्यसिद्ध्यर्थे स्वस्वकवचैः परिधापनार्थ प्रकर्षेण स्वसमीपं प्रापयन्तु । एवम् इन्द्रवर्मणा परिहितः सर्वैर्देवैश्च अनुगृहीतः अस्तृताख्यो मणिः मणिधारकम अभि रक्षतु || पञ्चमी ॥ अ॒स्मिन् म॒णावेक॑शतं वी॒र्याणि स॒हस्र॑ प्रा॒णा अ॑स्मि॒न्नस्तृ॑ते । व्याघ्रः शत्रून॒भि ति॑ष्ठ॒ सर्वा॑न् यस्त्वा॑ पृत॒न्यादध॑र॒ सो अ॒स्त्वस्त॑तस्त्वा॒भि र॑क्षतु ॥ ५ ॥ अस्मिन् । णौ । एकं शतम् । वी॒र्याणि । स॒हस्र॑म् । प्रा॒णाः । अ॒स्मि॑न् । अस्तृ॑ते । । व्याघ्रः । शत्रून् । अ॒भि । तिष्ठ । सर्वा॑न् । यः । त्वा॒ । घृ॒त॒न्यात् । अर्धरः । सः । अ॒स्तु॒ । अस्तृ॑तः । त्वा॒ । अभि । रक्षतु ॥ ५ ॥ अस्मिन् अस्तृताख्ये मणौ एकशतम् एकोत्तरं शतम् । शतक्रतोरिन्द्रस्य वर्मणावरणात् शतक्रतुसंबन्धीनि वीर्याणि शतसंख्याकानि । मणेः स्वीयं वीर्यम् एकम् । एवम् एकोत्तरं शतम् । एतत्संख्याकानि वीर्याणि वीर- कर्माणि सामर्थ्यानि विद्यन्ते । तथा अस्मिन् अस्तृते अहिंसिते परैः ए- तत्संज्ञके मणौ सहस्रम् । अपरिमितवाची सहस्रशब्दः । सर्वैर्देवैरनुगृही- तात् तत्संबन्धिनः अपरिमिता बलहेतवः प्राणाः संपद्यन्ते । एवंवी- प्राणोपेतो मणिस्वं व्याघ्रः । लुप्तोपमम् एतत् । व्याघ्र इव अथ वा व्याघ्रः व्याजिघ्रतीति व्याघ्रः । " आतश्चोपसर्गे" इति कर्तरि क- प्रत्ययः । शत्रुगन्धं विशेषेण आजिघन सर्वान् शत्रून अभि तिष्ठ अभिलक्ष्य तिष्ठ । आक्रमितुं समर्थो भव । अभिभवेति यावत् । यः शत्रुत्व त्वां मणिं प्रति पृतन्यात् योद्धुम इच्छेत् स शत्रुः अधरो नि- १ A B C D RC अस्मि॒िन्न $ प्राण अ॒स्मिन्नस्तृ॑ते. De अ॒स्मि° changed to अ॑स्मि॒॰J अ॒ s स्मिन् ।. We with KKVPP. 1 S' व्याघ्रप्रतीति.