पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू०४६. ] ५९० एकोनविंशं काण्डम् | ४६९ सर्वोपद्रवनिवारणं तस्य भावयिता इत्यनेन अनिष्टनिवृत्तिः मयोभूरित्य- नेन इष्टमाप्तिर्विवक्ष्यते । ऊर्जस्वान् ऊर्जः अन्नं तद्वान् ।

  • ऊर्ज-

यतेः असुन प्रत्ययः ४ । अन्नस्य दाता । यद्वा ऊर्जस्विनः पुत्रा - दयः ते पोष्यत्वेन यस्य सन्तीति । पयस्वान् पयः क्षीरादिकं तद्वान् त- areगुणविशिष्टः प्रदाता । ४ परस्परसमुञ्चयार्थाश्चकाराः ४ । अस्तृतः एतन्नामा मणि त्वा त्वां धारकम् अभि रक्षतु अभितः सर्वतः पालयतु ॥ सप्तमी ॥ यथा॒ त्वमु॑न॒रो असप॒त्नः स॑पल॒हा । सुजा॒नाना॑मसद् व॒शी तथा॑ त्वा सवि॒ता इ॑र॒दस्तृतस्त्वा॒भि र॑क्षतु ॥ ७ ॥ त्वम् । उत्तरः । अस॑ः । असपत्नः । सपलऽहा । स॒ऽजा॒ताना॑म् । असत् । व॒शी । तथा॑ त्वा॒ । सवि॒ता । करत् । अस्तृ॑तः । अभि । रक्षतु ॥ ७ ॥ अनेन मणिधारकस्य पुरुषस्य मणिप्रभावात् सर्वोत्तरत्वं शत्रुधर्षणसा- म च सर्वस्य प्रेरकः सविता करोत्विति आशास्यते । हे साधकत्वम् उत्तरः उत्कृष्टः सर्वोत्तरो यथाऽसः भवेः । अस्तेः पञ्चमलकारे अडागमः । असपलः अशत्रुः । शत्रूणाम् अत्यन्ताभावो विव- क्षितः । सपलहा तथापि ये केचन सपना उद्गच्छेयुस्तेषामपि हन्ता यथा भवेः । किं च सजातानाम् समानजातानां पुरुषाणां मध्ये वशी वशैः सजातैस्तद्वान् असत् भवेत् । भवच्छब्दयोगे प्रथमपुरुषः पुरुषव्यत्ययो वा । समानविद्यावयोवित्तकर्माणः पुरुषा यथा त्वां सेवेरन तथा भवेरित्यर्थः । सविता सर्वस्य प्रेरको देवः तथा तेनो- प्रकारेण त्वा त्वां मणिबन्धकं करत कुर्यात् । ४ करोतेः पूर्व- वद् अडागमः । या करोते छान्दसे लुङि " कृमृहरुहिभ्य: १ P J अकरत् ।, thongh J originally read करत्. P अकरत् ।. 1S' 'हिंसिसितः for 'विशिष्टः अस्तृतः 28 त्वा त्वां .

०" इति