पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४७.] ५९१ एकोनविंशं काण्डम् | ४७३ द्रष्टारो रात्रीप्रभावस्य आलोकयितारो ये सन्ति ये च अष्टोत्तराशीतिसं- ख्याका गणदेवा रात्र्या द्रष्टारः सन्ति । उतो अपि च सप्त सप्ततिः सप्तोत्तरसप्ततिसंख्याका ये गणदेवास्ते तव द्रष्टारः सन्ति । तेभिर्नः पाहि इत्युत्तरेण संबन्धः । ४ अत्र नवत्यशीतिसप्तत्यादयः शब्दा नव दशतः परिमाणम् अस्येत्यर्थे नवशब्दात् तिमत्ययः अष्टशब्दात् तिमत्ययः अ- शीभावश्च सप्तानां [दशतां सप्तभावः ] तिमत्ययः [ इति व्युत्पादनीयाः । ते च ] " ० विंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्” इति सूत्रेण परिमाणार्थे निपातिताः ४ ॥ चतुर्थी ॥ ष॒ष्टिश्च॒ षट् च॑ रेवति पञ्चाशत् पञ्च॑ सु॒म्नयि । च॒तार॑श्चत्वारि॑शच्च॒ त्रय॑रि॑त्र॒शच्च॑ वाजिनि ॥ ४ ॥ " षष्टिः । च । षट् । च । रेवति । प॒ञ्चाशत् । पञ्च॑ । सु॒म्नयि । च॒त्वाय॑ । च॒त्वा॒रि॑शत् । च॒ । त्रय॑ः । त्रि॑शत् । च॒ । वाजिनि ॥ ४ ॥ हे रेवति रमिति । ४ रयिशब्दाद् मतुपि "छन्दसीर : ' इति मतुपो वत्वम् । “रयेर्मतौ बहुलम्" इति संप्रसारणम् । पूर्वरूपत्वे गुणः । हे धनवति धनप्रदे. हे रात्रि [ षष्टिश्च षट् च ] षडुत- षष्टिसंख्याका ये गणदेवाः सन्ति । g परस्परसमुच्चयार्थी चका- रौष्ट । हे सुम्नय सुम्नं सुखं तद्वति तत्प्रापिके [पञ्चाशत् पञ्च ] पञ्चोत्तरपञ्चाशत्संख्याका ये गणदेवा द्रष्टारः सन्ति । तथा चत्वारश्च त्वा- रिंशत् चतुरुत्तराञ्श्चत्वारिंशत्संख्याकाश्च ये सन्ति । हे वाजिनि वाज: अनंत वेग वा वाजः तद्युक्ते त्रयस्त्रिंशत् त्र्युत्तरास्त्रिंशत्संख्याका ये तव द्रष्टारो गणदेवाः सन्ति । तेभिर्नः पाहि इत्युत्तरेण संबन्ध: । ण्णा दशतां षड्डावः तिश्च प्रत्ययः । अपदत्वं च । षड् दशतैः परिमाणम् अस्य षष्टिः । पञ्चानां दशतां पञ्चभावः आशच्च प्रत्ययः । चत्वारः । “चतुरनडुहोराम उदात्त: : इति आम आगमः । चतुर्णा दशतां च- वारिन्भावः शच्च प्रत्ययः । त्रयाणां दशतां त्रिन्भावः शच प्रत्ययः । 18' परिमाणार्थ. 28 °तोर्बहुल 38' दश for दशतः. ६० " घ-