पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४४.] ५९२ एकोनविंशं काण्डम् । अथो॒ इति॑ । योनि॑ 1 1 तानि॑ । ते । परि॑ दु॒ह्म॒सं ॥ १ ॥ ४७९ च॒ । यस्मै॑ ह॒ । यानि॑ च॒ । अन्तः । परि॒िणहि॑ि । । रात्रं । मात॑ः । उ॒षसॆ । नः । परि॑ देहि । 1 । । उ॒षाः । नः॒ः । अने॑ । परि॑ । दा॒तु । अह॑ः । तुभ्य॑म् । वि॒भाव॑रि ॥ २ ॥ । 7, 66 [ प्रथमा ] ॥ पूर्वमन्त्रे गवादयो विशेषेण उक्ताः । अत्र तु उक्तान्य- नुक्तानि वा बहिष्ठानि गृहवर्तीनि च संग्रहेणाह । अथो अपि च यस्मै यस्य मम संबन्धीनि बहिष्ठानि गोचरप्रदेशे अनावृतदेशे वर्तमानानि यानि वस्तूनि वर्तन्ते । यानि च परीणहि परितो न परिश्रिते गृ- हादौ अन्तः मध्ये यानि वर्तन्ते । ४ परस्परसमुच्चयार्थी चकारी । परिपूर्वाद् नहेः किपि " नहिवृतिवृषि' ' इत्यादिना उपसर्गस्य दी- घः । परीणच्छब्दो गृहवाची तैत्तिरीयके समाम्नायते । “ तमसीव वा एषोन्तश्चरति यः परीणहि " इति [ तै० ना° ३.२.४.७] । तानि प्रकाशानि अप्रकाशानि विविधानि वस्तूनि ते तुभ्यं परि दद्मसि । रक्ष- णार्थ दानं परिदानम् । रक्षितुं प्रयच्छामः । 8. पूर्ववद् 'इदन्तो मसिः ॥ हे मातः मातृवत्परिपालयित्रि हे रात्रि नः अस्मान् उ- सेल्समनन्तरभाविने प्रभातकालाय परि देहि रक्षणार्थं प्रयच्छ । ह- शब्दः पूरणः । तव पारम् उषःकालपर्यन्तं सुखेन अस्मान् प्रापयेत्यर्थः ॥ द्वितीया ॥ द्विपदा । उषाः उषः कालः सूर्योदयसमीपवर्ती समयः अहे सूर्यप्रकाशवते उषःकालानन्तरभाविने प्रातः संगवमध्याह्नापराह्नसायाहरू- पाय दिवसाय नः अस्मान् परि ददातु । उषःकालो दिवससमाप्तिपर्यन्तम् अस्मान् रक्षत्वित्यर्थः । हे विभावरि रात्रि । ४भा दीप्तौ । वि- पूर्वाद् " आतो मनिन् ” [इति] कनिप् । “वनोर च" इति ङीप् । नकारस्य च रेफः । अहः उक्तलक्षणोपेतः अहः कालश्च तुभ्यं नः परि ददातु । एवं पुनः पुनरावर्तमानौ अहोरात्रौ अस्मान् रक्षताम इत्यर्थः ॥ " १ See foot-note on the previous page. 1 S' वस्तमानानि for वर्तमानानि 25 ° वृधि So PPJ, and not farsaft 1. 35 तमसी for तमसीव.