पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३० अथर्व संहिताभाष्ये आ धेहीति प्रत्येक अभिसंबध्यते । वर्चः प्रभृतीनि अमेरसाधारणानि । तानि स्वशरीरे स्थापयेति आशास्ते । इन्द्रियाय । ज्ञानेन्द्रियाणि कर्मे- न्द्रियाणि च इन्द्रियशब्देन विवक्ष्यन्ते । इन्द्रियाणां दार्व्याय हे प्रतिगृह्य- माण पदार्थ वा त्वां प्रति गृह्णामि स्वीकरोमि । न केवलम् इन्द्रिय- सामर्थ्याय किंतु कर्मणे अग्निहोत्रादिलक्षणाय कर्मसिद्ध्यर्थम् । तथा वी- र्याय वीरस्य कर्म वीर्य शत्रुजयादि तत्सिद्ध्यर्थम् । एवं शतशारदाय श- तसंवत्सरजीवनाय । हिरण्यादिके प्रतिगृहीते सति तेन शरीरपोषणादि- द्वारा इन्द्रियाणां दार्व्यसंभवाद् एवम् आह ॥ तृतीया ॥ ऊ॒र्जे त्वा॒ बला॑य॒ त्वज॑से॒ सह॑से त्वा । अ॒भि॒भूर्या॑य॒ त्वा रा॒ष्ट्रभृत्याय॒ परी॑हामि श॒तशा॑रदाय ॥ ३ ॥ ऊर्जेत् । बर्ला । त्वा । ओज॑से । सह॑से । त्वा । अ॒भि॒ऽभू । त्वा॒ । राष्ट्रभृत्याय । परि॑ । ऊहामि । श॒तशा॑रदाय ॥ ३ ॥ हे प्रतिग्रहविषयभूत पदार्थ वा त्वाम् ऊर्जे । ऊर्ज्ं इति अन्ननाम । अन्नलाभाय त्वा पर्यूहामि परिवहामि । प्रतिगृह्णामीत्यर्थः । तथा बलाय शरीरसामर्थ्याय त्वा पर्यूहामि । एवम ओजसे सहसे चत्वा पर्यूहामि । [ अभिभूयाय ] अभिभूय: अभिभवनं तस्मै शत्रुजयाय प्रयोजनाय [T] पर्यूहामि । एवं राष्ट्रभृत्याय राज्यभरणप्रयोजनाय तथा शतशारदाय श- तशरत्पर्यन्तजीवनाय पर्यूहामि ॥ चतुर्थी ॥ ऋ॒तुभ्य॑ट्वात॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्य॑ः । धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ॥ ४ ॥ ऋतुभ्य॑ः । त्वा । आर्तवेभ्यः । मातऽभ्यः । सम्वत्सरेभ्यः । १ Except De ( which has ऋतुभ्यष्ठेत्यैका ) our MSS have ॠतुभिनेत्येक. The re forenre is to III. 10. 10 where, however, the MSS, all read ऋ॒तुभ्य॑ष्ट्रा° and not ऋतुर्भिष्ठा. IS शरीरे 28 on 'णां दाद'.