पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४९.] ५९३ एकोनविंशं काण्डम् । ४४९ यस्य स्तोमस्य स्तोत्रस्य स्तोत्रं नि बोध नितरां जानीहि । अनुग्रहानु- कूलर्बुद्ध्या अनुमन्यस्व । " क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वाच्चतुर्थी । " चतुर्थ्यर्थे बहुलम्” इति षष्ठी । बुधिर् अवगमने । भौवादिकः । अस्माल्लोटि मध्यमे हेर्लुक् ४ । येन स्तोमेन विश्वासु सर्वासु दिक्षु व्याप्तां त्वा त्वां वन्दे अभिष्टौ । वदि अभिवाद- नस्तुत्योः ॥ षष्ठी ॥ स्तोम॑स्य नो विभावरि॒ रात्र राजेव जोषसे । असा॑म॒ सर्वे॑वीरा॒ भवा॑म॒ सर्वे॑वेदसो व्युच्छन्ती॒र॑नु॒षस॑ः ॥ ६ ॥ स्तोम॑स्य । नः । विभावरि । रात्रं । राजा॑ऽइव । जोषसे । । असा॑म॒ । सर्वेऽवीराः । भ॑वा॑म । सर्वेऽवेदसः । वि॒ऽउ॒च्छन्तः । अनु॑ । उ॒षस॑ ॥ ६ ॥ " हे विभावरि विशेषेण भासमाने हे रात्रि नः अस्मदीयस्य स्तोमस्य स्तो- त्रस्य स्तोत्रं जोषसे जुषस्व सेवस्व । तत्र दृष्टान्तः । राजेव यथा राजा स्तोतृभिः क्रियमाणां स्तुतिं प्रीत्या सेवते अवहितः शृणोति एवम् अवहिता अस्मदीयं स्तोत्रम् अवधारयेति । ४ जुषी प्रीतिसेवनयोः । अस्मा- लेटि अडागमः । “छन्दस्युभयथा ” इति तिङ आर्धधातुकत्वात् लघूप- धगुणः ष्ट । यदि स्तोत्रं शृणुयास्तर्हि व्यच्छन्तीः । उछी वि- वासे । तमो विवासयन्तीः अपसारयन्तीः प्रकाशमाना उषसः उ- षः कालान् अनु । ४ लक्षणार्थे अनुः कर्मप्रवचनीयः ४ । षःकालबहुत्वात् सार्वकालं विवक्षितम् । सर्वदा सर्ववीरा असाम । वीरः कर्मणि कुशलः पुत्रादिः । सकलपुत्रमित्रादिसमेता असाम भवाम । स्तेर्लोटि “आडुत्तमस्य पिच्च" इति आडागम: ४ । उ- अ- तथा सर्ववे- ? A B C D E $ VDC Cs व्युच्छन्तीरन॒षस॑ः PPJ अ॒न॒ऽउ॒षस॑ः । instead of अनु॑ । २ P भवाम् । J भवो changed to भवाम् ।. We with P. 18 अनुग्रहानुबुद्धधा. ६२ 2S' जुष for जुषस्व 3S has यथा again before प्रीत्या.