पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ३४.] ५८२ एकोनविंशं काण्डम् । धा॒त्रे । वि॒ऽधा॒त्रे । स॒मऽधि॑ भू॒तस्य॑ । पत॑ये । य॒जे ॥ ४ ॥ ४३१ हे पदार्थ वा वाम ऋतुभ्यः ग्रीष्मादिभ्यः तेषां प्रीणनाय यजे सं- तं करोमि ददामि वा । एवम् आर्तवेभ्यः ऋतुसंबन्धिनीभ्यो देवताभ्यः तथा माद्भ्यः मासेभ्यचैत्रादिरूपेभ्यो द्वादशसंख्याकेभ्यः तथा संवत्सरेभ्यः संवसन्ति एषु मासादिकालावयवा इति संवत्सराः तेभ्यः एवं धात्रे स्रष्ट्रे एवंनामकाय देवाय तथा विधात्रे विविधस्य भूतजातस्य कर्त्री एवं स- मृधे समर्धयति सृष्टानि प्राणिजातानीति समृत् तस्मै यजे । तथा भू- तस्य उत्पन्नस्य कृत्स्नस्य पदार्थस्य पतये स्वामिने यजे ॥ " इति पञ्चमेनुवाके चतुर्थ सूक्तम ॥ "न तं यक्ष्माः इति पञ्चमं सूक्तम् । तस्य " ऐतु देवः" इति उत्तरसूक्तस्य च पुरोहितकर्तव्ये रात्रौ राज्ञः शय्यागृहप्रवेशनकर्मणि गु- ग्गुलुधूपं कुष्ठौषधिधूपं च दद्यात् ॥ 66 " अथ पिष्टमयीं रात्रिं चतुर्भिर्दीपकैः सह " इति प्रक्रम्य उक्तं परिशिष्टे । " एह्यश्मानम् आ तिष्ठ [ २.१३.४] इति 'पञ्चमीम अधिष्ठापयेत् । न तं यक्ष्माः [ १९. ३४ ] ऐतु देवः [१९. ३९ ] " इति गुग्गुलु[कुष्ठ]धूपं दद्यात् " इति [ प ० ४ ४] ॥ तत्र प्रथमा || न त॑ यक्ष्मा॒ अ॑रु॑न्धते॒ नैन॑ श॒पथो॑ अंश्रुते । यं भे॑ष॒जस्य॑ गृ॒ल्गुलोः सु॑र॒भिर्गुन्धो अ॑नु॒ते ॥ १ ॥ न । तम् । यक्ष्मा॑ । अ॑रु॑न्धते । न । ए॒न॒म् । श॒पथ॑ः । अ॒श्रुते । । यम् । भेष॒जस्य॑ । गुल्गुलोः । सुरभिः । गन्धः । अ॒श्रुते ॥ १ ॥ तं राजानं यक्ष्माः व्याधयो नारुन्धते रोधं न कुर्वन्ति न पीडय - १ Šo the form and accent in ABCDKKR SVDCSPPJ Sayana also अरु- घते, though his text is अधत. २ C शपथश्रुते for शपथ अद्भुते ABCKV गु ४ All our anthorities: अद्भुते. yet:. Iyyat: 1. We with D KRSV De Cs PP. So PPJ. JS/ भूतस्य तथा भूतस्य for तथा भूतस्य.