पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ अथर्व संहिताभाष्ये " पादौ गमनसाधनभूतौ प्रच्छिनत्तु । हस्तौ बाहू च प्र हरत् यथा ना- षित [न] संश्लेषयेत् मिथो न संयोजयेत् । परं प्रहर्तुम इति शेषः । तथा हस्तौ प्रच्छिनत्तु । X विष आलिङ्गने इति धातुः । “श्लिष आलिङ्गने" इति आलिङ्गनेर्थे क्सस्य विधानाद् अत्र तदर्थाभावात् ले: अ आदेश एव । ङित्त्वात् लघूपधगुणाभावः ४ ॥ एकादशी ॥ यो मलिम्लुः मलिम्लुचस्तस्करः उपायति अस्मदीयधनम् अप बाधितुं वा समीपम् आगच्छति स शत्रुः संपिष्टः त्वया सम्यक् चूर्णितः सन् अपायति अस्मत्तः अपगच्छतु । आवश्यकत्वद्योतनार्थम् अ- पायतीति पुनर्वचनम् । स्वपायति सुष्ठु सम्यग् निःशेषम् अपगच्छतु । गन्तव्यस्थानेपि सुखलेशस्याप्यभावम् आह । शुष्के नीरसे स्थाणौ शा- खोपशाखारहितवृक्षमूले आश्रये [ अपायति] अपायतु अपगच्छतु । अ- स्मत्तोऽपगतः शत्रुश्छायारहितं नीरसवृक्षमूलम् आश्रयत्वित्यर्थः । 8 अत्र सर्वत्र एतेलॅटि अडागमः ४ ॥ 66 [इति] षष्ठेनुवाके चतुर्थं सूक्तम् ॥ 'अध रात्रि तृष्टधूमम्” इति सूक्तस्य रात्रीकल्पे रात्र्युपस्थाने जपे च विनियोगः पूर्वसूक्तेन सह उक्तः ॥ तत्र प्रथमा ॥ अर्ध रात्रि तृ॒ष्टर्धूममशी॒र्षाण॒महि॑ कृणु । अ॑क्ष वृस्य॒ निर्ज॑या॒स्तेन॒ तं हु॑प॒दे ज॑हि ॥ १ ॥ अध॑ । रा॒त्रि॑ । तृ॒ष्टऽर्धूमम् । अ॒शीर्षाण॑म् । अहि॑म् । कृणु । । वृक॑स्य । निः । जाः । तेन॑ । तम् । द्रुऽप॒दे । जहि॒ ॥ १ ॥ एषा ऋक् “आ रात्रि पार्थिवम्" इति सूक्ते व्याख्याता [ ४७ ] । अक्षौ निर्जला इत्येतावान् विशेषः । अक्षौ अक्षिणी चक्षुषी निर्जया: । २ ज- ABCD KR S VDo Cs PÉ J अंधे. We with Styana. B अक्षौ. C अक्षौ changed to अक्ष्यौ D अक्षू. KV अध्यौ ई आक्षौ. De अक्षौ changed to अक्ष्यो. C अक्षो. PPJ अक्ष्यौ ।. We with ARV. 15 सर्वत्रायते ' for सर्वत्र एते. 28 °त्येतावनिशेषः for 'स्येतावान् विशेषः.