पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५१.] ५९५ एकोनविंशं काण्डम् । ४९९ अनवरतं परस्परानुपदिलेन आवर्तमानौ अहोरात्रौ अस्मान् शत्रुबाधाप- रिहारेण पशुधनादिसमेतान कुरुताम् इति तात्पर्यार्थः ॥ 66 [इति] षष्ठेनुवाके पञ्चमं सूक्तम् ॥ 'अयुतोहम् " इति यजुर्मन्त्रात्मकं सूक्तम् । अस्य विनियोगो लिङ्गाद् अवगन्तव्यः ॥ तत्पाठस्तु ॥ अयु॑तोहमयु॑तो म आत्मायु॑तं मे चक्षुरयु॑तं मे श्रोत्रमयु॑तो मे प्राणोर्युतो पानयु॑तो मे व्या॒नोयु॑तोहं सर्वैः ॥ १ ॥ अयु॑तः । अ॒हम् । अयु॑तः । मे। आत्मा । अयु॑तम् । मे । चक्षुः । अ- यु॑तम् । मे । श्रोत्र॑म् । अयु॑तः । मे॑ । प्रा॒णः । अयु॑तः । मे । अपानः । अयु॑तः । मे । वि॒ऽआनः । अयु॑तः । अ॒हम् । सर्वैः ॥ १ ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒ प्रय॑त आरंभे ॥ २ ॥ दे॒वस्य॑ त्वा॒ । स॒वि॒तुः । प्र॒स॒वे । अ॒श्विनो॑ः । वा॒हुभ्या॑म् । पूष्णः । हस्ता॑भ्याम् । प्रसूतः । आ । रमे ॥ २ ॥ अहं साङ्गशरीराभिमानी कर्मानुतिष्ठासुरहम् अयुतः [ संपूर्णः । मे मम आत्मा जीवः अयुतः संपूर्णः ] । अथ वा आंत्मशब्देन शरीरम् उच्यते आत्मा जीवे धृत देहे स्वभावे परमात्मनि इति अभिधातृभिः शरीरवाचकत्वेन प्रयुक्तत्वात् । तथा चक्षुः सर्वप- दार्थविषयज्ञानसाधनं चक्षुरिन्द्रियं श्रोत्रम् वैदिकमन्त्र श्रवणसाधनं श्रवणे- न्द्रियम् । प्राणः हृदयाद् आरभ्य नासिकारन्धान्निर्गच्छद्वायुः प्राण इत्यु- च्यते । अपानः पायुद्वारान्निर्गच्छद्वायुः । अपानिति अवाङ्मुखं चेष्टत इति व्युत्पत्तेः । व्यानः प्राणापानसंधिरूपो वायुः । केचिच्छरीरवायोः प्राणादिपञ्चवृत्तित्वं समामनन्ति । अन्ये तु वृत्तित्रयवत्त्वम् । अयुतोहं सर्व इति उक्तानुक्तावयवेन्द्रियसाकल्याय उक्तम् ॥ सवितुः सर्वस्य प्रस- १ A प्रा॒णोयु॑तो मेपानोयु॑तो मे. २ P पुष्ण: 1. We with PJ. 1 S' कुरुमिति for कुरुताम् इति. 25' आत्मने for आत्मशब्देन.