पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०० अथर्वसंहिताभाष्ये वितुर्देवस्य प्रसवे अनुज्ञायाम् अश्विनोर्देवयोः अध्वरेवः बाहुभ्या पूष्णो देवस्य हस्ताभ्याम् । अंसप्रभृतिप्रकोष्ठपर्यन्तं बाहू । तदाङ्गुत्यग्रपर्यन्तौ हस्तौ इति विभागः । प्रसूतः प्रेरितः अनुज्ञातो वा वा त्वाम् । क्रि- यमाणं कर्म संबोध्यते । आ रभे उपक्रमे प्रयोक्ता अहम् । सर्वेन्द्रियसं- पूर्ण: सवित्रा अनुज्ञातः अश्विनोर्बाहुभ्यां पूष्णव हस्ताभ्यां कर्मसु व्या- प्रिय इत्यर्थः । ४ रभ राभस्ये । भौवादिकः । आत्मनेपदी । रा- भस्यम् उपक्रमः ॥ 66 [ इति ] षष्ठेनुवाके षष्ठं सूक्तम् ॥ 'कामस्तदग्रे " इति सूक्तेन प्रतिगृह्यमाणं द्रव्यम् अभिमन्य प्रतिग्र हीता स्वीकुर्यात् । सूत्रितं हि संहिताविधौ । “क इदं कस्मा अदात् “[३.२९.७] कामस्तदग्रे [१९. ५२] यदन्नं [ ६.७१] पुनर्मैत्विन्द्रियम् " [७. ६९ ] इति प्रतिगृह्णाति " [ कौ० ५.९] इति ॥ सवयज्ञप्रतिग्रहेपि इदं सूक्तं विनियुक्तम् । सूत्रितं हि कौशिकेन । " ददामीति नामग्राहम् उपस्पृशेत् सदक्षिणं कामस्तदग्र इत्युक्तम् " [ कौ० ८. ९ ] इति ॥ 66 तथा दर्शस्य पूर्णमासस्य वा व्यतिक्रमे जाते आज्यहोमे शान्तंसमिदा- धाने वा विनियुक्तम । सूत्रितं हि । “ एतेनैवामावास्यो व्याख्यातः । “ऐन्द्राग्नीत्र द्वितीयो भवति । तयोर्व्यतिक्रमे 'त्वमग्ने व्रतपा असि' [१९. ५९ ] "कामस्तदग्रे' [१९५२ ] इति शान्ता: ” इति [ कौ०१.६] ॥ सौवर्णभूमिप्रतिकृतिदाने अनेन कामसूक्तेन आज्यं जुहुयात् रोहिण्याम्” इति प्रक्रम्य उक्तं परिशिष्टे । “अन्वारभ्यांथ जुहुयात् काम- सूक्तं कालसूक्तं पुरुषसूक्तम् इत्यथ सुवर्णमयीं भूमिम” इत्यादि [५०१०.१]॥ 666 तत्र प्रथमा || काम॒स्तदने॒ सम॑वर्तत॒ मन॑सो॒ रेत॑ः प्रथ॒मं यदासी॑त् । ' सका॑म॒ कामे॑न बृह॒ता संयो॑नी रा॒यस्पोषं॒ यज॑मानाय धेहि ॥ १ ॥ १ A BK सयौनि D सयौनि changed to सयोनी. We with DK ŚBVO 18 अध्वर्योः 2 $ un. बाहुभ्यां 3S शांति° 48' om. अथ. " अथ