पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ५२. ] ५९६ एकोनविंशं काण्डम् । । ५०१ कार्मः । तत् । अर्थे । सम् । अ॒वर्तत । मन॑सः । रेत॑ः । प्रथ॒मम् । यत् । आसी॑त् । म॒ । कामे॑न । बृ॒ह॒ता । सऽयो॑नः । रा॒यः । पोष॑म् । यज॑मानाय । ॥ १ ॥ स । एतत् सूतं कामप्रतिपादकत्वात् कामसूक्तम् इति अभिधीयते । मल- काले सर्वेषु जगत्सु वासनाशेषेण मायायां विलीनेषु पुनरीश्वरस्य पर्या- लोचनं जगतः पुनरुत्पत्तौ कारणं तदेव किंनिबन्धनम् इति तद् आह कामस्तदग्र इति । अग्रे अस्य विकारजातस्य सृष्टेः प्रागवस्थायां परमे- श्वरस्य मनसि कामः समवर्तत सम्यग् अजायत । सिसृक्षा जातेत्यर्थः । अत्र मनोव्यतिरेकेण कामनाया उत्पत्त्यसंभवात् मनस्तत्त्वमपि प्रथमं मा- यातो जातम् इत्यर्थः । श्रूयते हि । “ तद् असदेव सन्मनोऽकुरुत स्याम् इति" [इति ] [ तै० ब्रा० २. २,९,१] । ईदृशस्य मनस उत्पत्तेरनन्तरं कामः समवर्ततेत्यर्थः । ईश्वरस्य सिसृक्षा किंहेतुकेत्यत आह मनस इति । मनसः अन्तःकरणस्य संबन्धि वासनाशेषेण मायायां विलीने अन्तःकरणे समवेतम् । ४ सामान्यापेक्षम् एकवचनम् । सर्वप्राण्यन्तः क- रणेषु समवेतम् इत्यर्थः । एतेन आत्मनो गुणाधारत्वं प्रत्याख्यातम् । तादृशमनः संबन्धि रेतः भाविनः प्रपञ्चस्य बीजभूतं प्रथमम् अतीते कल्पे प्राणिभिः कृतं पुण्यापुण्यात्मकं कर्म यत् यत: कारणात् सृष्टिसमये आसीत् अभवद् भूष्णु वर्धिष्णु समजायत । परिपक्कं सत् फलोन्मुखम् आसीद् इत्यर्थः । तत् ततो हेतोः फलप्रदस्य सर्वसाक्षिणः कर्माध्यक्षस्य परमेश्वरस्य मनसि सिसृक्षाजायतेत्यर्थः । तस्यां च जातायां द्रष्टव्यं पर्या- लोच्य ततः सर्व जगत् सृजति । तथा च आम्नायते । " सोकामयत " बहु स्यां प्रजायेयेति । स तपोतप्यत । स तपस्तत्वा इदं सर्वम् असृजत " यद् इदं किं च" इति [ तै० आ० ४.६] । हे काम सः सर्वजगत्सर्जनार्थं . परमेश्वरेण उत्पादितंस्त्वं बृहता महता देशकालवस्तुपरिच्छेदरहितेन कामेन कामयित्रा परमेश्वरेण । ♛ कामयतेः पचाद्यच्४। सयोनिः समान- कारणः । परमेश्वरव्यतिरिक्तकारणान्तररहित इत्यर्थः । यजमानाय धनप्र- 18 उत्पत्तिसंभवात्. 28/ अन्तकरणस्य. 3 S' उत्पादित्वं for उत्पादितस्त्वं.