पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५३.] ५९७ एकोनविंशं काण्डम् । । । ५०५ तम् । आ । रो॒ह॒न्ति॒ । क॒वय॑ः । वि॒षः ऽचित॑ः । तस्य॑ । च॒क्रा । भुव॑नानि । विश्व ॥ १ ॥ अनेन सूक्तद्वयेन सर्वजगत्कारणभूतः कालरूपः परमात्मा स्तूयते । तत्र प्रथमया कालोऽश्वात्मना रूप्यते । सप्तरश्मिः [ सप्त ]संख्याका र- श्मयो रज्जवो मुखग्रीवापादावंबडा यस्य सः सहस्राक्षः सहस्रलोचन: अजर: जरारहितः नित्ययुवा भूरिरेताः । रेतः शुक्ररूपः सप्तमो धातुः । प्रभूतवीर्यः रेतः सेचनसमर्थः अपत्योत्पादनशक्तः कालः कलयिता व वहति स्वारोहकान अभिमतं प्रदेशं प्रापयति । तम् अयं विपश्चितः अ- श्वारोहणावरोहणादिषु कुशला अश्वशास्त्रनिष्णाताः कवयो धीमन्तः आ रोहन्ति । तस्य अश्वस्य चत्रा चक्राणि । ४ चङ्कमणाञ्चक्रम् इति यास्कः [ नि०४.२७] ४ । गन्तव्यानि स्थानानि विश्वा विश्वानि भु- वनानि । इति श्वक्षेर्थः ॥ विवक्षितस्तु । अश्व: अनुते व्याप्नोति भू- तभविष्यवर्तमानकालवर्तीनि वस्तूनीति अश्वः । कालः कलयिता सर्वस्य जगतः अनवच्छिन्नकालरूपः परमेश्वरः । सप्तरश्मिः । रश्मिशब्देन ॠ- तव उच्यन्ते । सप्तर्तुः एकैक ऋतुर्मासद्वयात्मकः सप्तमस्तु त्रयोदशो मासः । तथा च दाशतय्याम आम्नायते । " साकंजानां सप्तथम् आ- हुरेकर्ज षळिद्यमा ऋषयो देवजा इति" इति [ऋ°१.१६४.१५] । अत्रापि समाम्नातं प्राक् [ ९.१४.१६ ] । सहस्राक्षः । अत्र अक्षिश- ब्देन दिनानि रात्रयश्च उच्यन्ते । सहस्रसंख्याकाहोरात्रयुक्तः । अजरः जरारहितः सर्वदा एकरूपः । भूरिरेताः प्रभूतजगत्सर्जनसमर्थशक्तिसं- पन्नः । एवंरूपः कालो वहति प्राणिजातं स्वस्वकर्मसु प्रापयति । तं कालं कवयः श्रान्तदर्शिनो विपश्चितः विद्वांसः आ रोहन्ति स्वाधीनं कु- ति । स्वाधीनकाला भवन्तीत्यर्थः । तस्य कालात्मकस्य रथस्य चक्रा चक्राणि विश्वा विश्वानि भुवनानि भूतजातानि । लोकान् अभिगच्छन्ती- ति शेषः ॥ अथ वा अश्वशब्देन आदित्य उच्यते । तथा च यास्कः । 'एको अश्वो वहति सप्तनामा । आदित्यः । सप्तास्मै रश्मयो रसान् अ- 18 has अस्मिन् before अनेन. 2S' ° पादावद्धा. 3 S शुक्ल.. AS' श्वारोहकान्. S' अश्वक्षेर्थः, 6 So S' S' सप्तादित्यस्य रश्मयो for सप्तास्मै रश्मयो. ६४