पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ 66 अथर्वसंहिताभाष्ये " भिसनामयन्ति सप्तैनम् ऋषय स्तुवन्तीति वा ” इति [ नि० ४.२७] । कालात्मकोश्वः सूर्यः सप्त रश्मयः प्रधानभूता यस्य । ते चैव सप्त सूर्या इत्युच्यन्ते । “देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष नः” इति निगम: [ ऋ०९.११४. ३] । तेषां च नामानि तैत्तिरीया अधीयते । “आरोगो भ्राजः पटरः पतङ्गः स्वर्णरो ज्योतिषीमान् विभासः” इति [ तै० आ० १,७. १ ] । असौ तु प्रधानभूतः कश्यपाख्य आदित्यः । 'कश्यपोष्टमः स महामेरुं न जहाति ” इति श्रुतेः [तै० आ०१.७, १] । यहा रश्मिशब्देन च्छन्दांस्यभिधीयन्ते । गायत्र्यादीनि च्छन्दांसि यस्य । तथा च निगमः । " ऋग्भिः पूर्वा दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्य: " इति [ तै० ब्रा° ३. १२.९.१] । यद्वा रश्मिमन्तोऽश्वा रश्मिशब्देन उ- सप्ताश्वः । 'सप्त युञ्जन्ति च्यन्ते ।

  • मत्वर्थीयस्य लोपः ।

रथम् एकचक्रम्" इति निगमः [९.१४. २] । सहस्राक्षः अक्षि- वद् अक्षीणि किरणाः सहस्रकिरणोपेतः अजरः अविनश्वरो नित्यः भू- रिरेताः । उदकवाची रेतःशब्दः । “ यदा खलु वा असावादित्यो न्यङ् रश्मिभिः पर्यावर्ततेथ वर्षति" इति श्रुतिः [ तै० सं० २, ४, १०.२] । एवंरूप आदित्यो वहति कालचक्रं धारयति । तं कालात्मकं सूर्य वि- sis: अधिगतपरमार्थाः आ रोहन्ति सूर्यमण्डलं भित्त्वा उपगच्छन्ति । द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिवाड् योगयुक्तश्च रणे चाभिमुखो हतः ॥ इति स्मृतेः । यद्वा स्वात्मभावेन अधितिष्ठन्ति । अत एव आदित्यं पुरुषं प्रकृत्य श्रूयते । " तद् योहं सोसौ योसौ सोहं तद् उक्तम् ऋषिणा सूर्य आत्मा जगतस्तस्थुषश्च' ." इति [ ऐ० आ०२.२, ४] । तस्य सूर्यस्य चक्रा चक्राणि चङ्क्रमणानि व्याप्तिस्थानानि सर्वाणि जगन्तीति ॥ द्वितीया ॥ स॒प्त च॒क्रान् व॑हति काल ए॒ष स॒प्तास्य॒ नाभि॑र॒मृतं॒ न्वक्षः । | S' पतंगाः, 2 S' कश्यपस्या आदित्यः 3S शून्यः.