पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ५३.] ५९७ एकोनविंशं काण्डम् | ५०७ स इ॒मा विश्वा॒ भुव॑नान्य॑ञ्जत् कालः स ईयते प्रथ॒मो नु दे॒वः ॥ २ ॥ स॒प्त । च॒क्रान् । वह॒ति॒ । कालः । एषः । सप्त । अस्य । नाभः । अ॒मृत॑म् । | अक्षः । । स। इ॒मा । विश्वा॑ । भुव॑नानि । अत् । कालः । सः । ईयते । प्रथमः । नु । दे॒वः ॥ २ ॥ 66 अनया संवत्सररूपकालचक्रं वर्ण्यते । तस्य संवत्सरकालस्य चक्राणि एकं त्रीणि पञ्च षट् सप्त द्वादशेति तत्रतत्र आम्नायते । 'सप्त युञ्जन्ति रथम एकचक्रम” [९. १४. २] “त्रिनाभि चक्रम् " [ ९.१४.२] “ सप्त- चक्रे षडरे " [ ९. १४.१२] “ द्वादशारम्" [९.१४, १३ ] इत्यादिषु । तथा च शौनकोप्याह । त्रिधा द्वादशधा षोढा पञ्चधा सप्तधा तथा । संवत्सरं चक्रवच्च पराभिः कीर्तयत्यृषिः । इति [ वृ० ४.३२] ॥ एष सर्वजगत्कारणलेन अनुभूयमानः कालः परमात्मा सप्त चक्र चक्राणि सप्त ऋतून अनुं अनुक्रमेण वहति धारयति । अस्य संवत्सरस्य सप्तं नाभीः नाभयः । नह्यते नाभिः । अक्षबन्धकानि मध्य- च्छिद्राणि सप्त ऋतुसंधिकालाः । अस्य अक्षः तनुं संततं सूक्ष्मम् अ- मृतम् अमरणधर्मकम् अविनश्वरं तत्त्वम् । सप्तचक्रच्छिद्रेषु प्रोतः अनु- स्यूंतोऽक्षः सत्यम् अबाध्यं तत्त्वम् । सः पूर्वोक्तसंवत्सररूपः प्रथमः स- र्वस्य आदिभूतो देवः द्योतमानः नित्यज्ञानरूपः कालः परमात्मा इमा इमानि नामरूपात्मना व्याकृतानि विश्वा विश्वानि भुवनानि भवनवन्ति चराचरात्मकानि जगन्ति अञ्जत् अञ्जन् । अनक्तेः शतरि “अ- नित्यम् आगमशासनम्" इति नुमभावः ४ । व्यक्तीकुर्वन् खेन १ # $ V Dc °न्यंजत्कालः, which they ought to read वन्यंजन्कालः. Sec the padas. We with A B C D R Cs. PJ अंजत् ।. We with P. 1 Sayana's text reads सप्त चक्रानुवहति for स॒प्त च॒क्रान् व॑द्दति 2S स्तनीभिः for सप्त नाभी: 3 Sayana's reading is अमृतं तन्वक्षः 45' has a lacuna of about fifteen letters between °स्यूतो and sक्ष:-