पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

406 अथर्व संहिताभाष्ये कालेन अवच्छिन्नानि कुर्वन् उत्पादयन् सः स्यति संहरतीति सः । अन्तकर्मणि । कर्तरि कप्रत्ययः । आतो लोपः । गच्छति व्याप्नोति सर्वम आवृत्य वर्तते । ई ४ षो संहरं ईयते गतौ । दैवादि- कः ५ । शब्द: प्रसिद्धौ ॥ यद्वा अध्यात्मपरत्वेन योज्यः । कालः कलयिता सर्वेन्द्रियव्यापारकर्ता शरीराभिमानी देवः । बन्धकाः विषया रू- पादयः । तनुं सूक्ष्मं दुर्दर्शम । अमृतम् चैतन्यम् । अक्षः सर्वेन्द्रियेषु तद्विषयेषु च अनुगतः । एवं सर्वाणि प्राणिजातानि अनंत प्रेरयन ई- यते । सः उपसंहरंश्च स कालः ईयते तत्त्वज्ञैर्ज्ञायते । गौ । कर्मणि यक् प्रत्ययः ४ ॥ तृतीया ॥ ४ इण् पूर्ण: कुम्भोधि काल आहि॑ित॒स्तं वै पश्या॑मो बहुधा नु स॒न्तः । स इ॒मा विश्वा॒ भुव॑नानि प्रत्यङ् कालं तमा॑हुः पर॒मे व्योमन ॥ ३ ॥ पूर्णः । कुम्भः । अर्ध । काले । आऽर्हितः । तम् । वै । पश्यमः । ब॒हुऽ- धा । नु । सन्तः । स। इ॒मा । विश्वा॑ । भुव॑नानि । म॒त्यङ् । कालम् । तम् । आहुः । परमे । विऽओमन ॥ ३ ॥ । काले सर्वजगत्कारणभूते नित्ये अनवच्छिन्ने परमात्मनि स्वस्वरूपे । अ- धिशब्दः सप्तम्यर्थानुवादी हैं । पूर्ण: सर्वत्र व्याप्तः कुम्भः कुम्भवत् कुम्भ: अहोरात्रमासर्तुसंवत्सरादिरूपः अवच्छिन्नो जन्यः कालः आहितः fafeat वर्तते । सर्वस्य कार्यस्य स्वकारणेऽवस्थानात् । अत्र विद्वदनुभ- श्रुतिं प्रमाणयति । तं जन्यं कालं सन्तः सत्पुरुषा बहुधा नानाप्रकारम अहोरात्रादिभेदेन पश्यामो नु अनुभवामः खलु । अथवा तं जन्यका- लाधारं परमात्मानं बहुधा बहुभिः श्रवणमनननिदिध्यासनैः पश्यामः साक्षात्कुर्मः । सन्तः सद्रूपब्रह्मोपासका वयम् । “अस्ति ब्रह्मेति चेद् वेद सन्तम् एनं ततो विदुः" इति हि श्रुतिः [ तै० आ०४. ६ ] । वैनु ° 1 S' उशब्दः 28 अंजन 3S विद्वदनुभवं श्रुतिः प्रमाणयति.