पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66 ५१० अथर्व संहिताभाष्ये एकस्मिन् जन्मन्येव पितुः पुत्रलम् आम्नायते । “अङ्गाद् अङ्गात् संभ- " वसि हृदयाद् अधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः " शतम् इति [ कौ० उ०२, ११] । तस्मात् सर्वोत्पादकात् सर्वगतात् पुत्रादिरूपेण भविष्यतश्च तस्मात् कालाद् अन्यत् परम उत्कृष्टं तेजो नास्ति । वैशन्द: प्रसिद्धौ । तेजो नास्तीति निषेधात् स्वस्यापि तेजोरू- पत्वम् अर्थसिद्धम् । “ तस्य भासा सर्वम् इदं विभाति" इति श्रुतेः । [क०व०५,१५] ॥ पञ्चमी ॥ कालोसूं दिव॑मजनयत् काल इ॒माः पृ॑थि॒वीरु॒त । भूतं भव्यं चेषि॒तं ह॒ वि ति॑ष्ठते ॥ ५ ॥ लः । अमूमं । दिव॑म् । अजनयत् । कालः । इ॒माः । पृथि॒वीः । उ॒त । ले । हु । भू॒तम् । भव्य॑म् । च॒ । इषि॒तम् । हैं । वि । तिष्ठते ॥ ५ ॥ काल: परमात्मा अमूं विप्रकृष्टां दिवम द्युलोकम् अजनयत् उत्पादि- तवान् । उत अपि च इमाः परिदृश्यमानाः सर्वप्राण्यधारभूताः पृथि- वीः । व्यत्ययेन बहुवचनं कक्ष्याभेदेन वा । तथा च मन्त्रवर्णः । " यद् इन्द्रानी अवमस्यां पृथिव्यां मध्यमस्यां परमस्याम उत स्पः" इति [ऋ°१,१०४.९] । तथा । हशब्दः एवार्थे । काल एव भूतम् भूत- काले आधारे अवच्छिन्नं भव्यम् भविष्यच्च इषितम् इष्टम् इष्यमाणं वर्त- मानकालावच्छिन्नं च जगद् वि तिष्ठते विशेषेण आश्रितं वर्तते । मवप्रविभ्यः स्यः " इत्यात्मनेपदम् ४ ॥ षष्ठी । कालो भूतिम॑सृजत काले त॑पति॒ सूर्य॑ः । "स- काले ह • विश्व भूतानि काले चक्षुर्वि पश्यति ॥ ६ ॥ १ ABCDRV कालोमुं. De कालोमु changed to कालोसूं. Cs कालोमु. PPJ अ- सुम् 1. We with KK Sv. ABCDKKR SDCs ह॒विस्तिष्ठते for ह॒ वि ति॑ष्ठते. ३ PP J] हविः । तिष्ठते ।. We with Sayana. 1S' सर्वप्राणा° for सर्वप्राण्या.