पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ५३.] ५९७ एकोनविंशं काण्डम् | ५११ काल: । भूतिम | असृजत । काले । तप । सूर्यैः । । । । सृज काले । ह॒ । विश्वा॑ भू॒तानि॑ । काले । चक्षु॑ः । वि । प॒श्यति ॥ ६ ॥ कालः कालरूपः परमात्मा भूतिमं भवनवज्जगद् असृजते । विसर्गे । तौदादिकः । व्यत्ययेन आत्मनेपदम् । दैवादिकाद् वा आत्म- नेपदिनो व्यत्ययेन शः४ । काले प्रेरके सति सूर्यः आदित्यः त- पति जगत् प्रकाशयति । काल एव आश्रये [ विश्वा ] विश्वानि भूतानि वर्तन्ते । काले चक्षुः । उपलक्षणम् एतत् । चक्षुरादीन्द्रियाणि विप- श्यति । इदमपि उपलक्षणम् । दर्शनादिकर्माणि कुर्वन्ति । यद्वा चक्षुः । चक्षुः शब्दो लैम्नमत्वर्थीयः । चक्षुष्मान् सर्वेन्द्रियाधिष्ठाता वि पश्यति स्व- स्वेन्द्रियव्यापारं करोति ॥ सप्तमी ॥ काले मन॑ः काले माणः काले नाम॑ स॒माहि॑तम् । लेन॒ सर्वा॑ नन्द॒न्त्याग॑तेन प्र॒जा इ॒माः ॥ ७ ॥ काले । मन॑ः । काले । प्रा॒णः । काले । नाम॑ । स॒म्ऽआर्हितम् । कालेन । सर्वा॑ः । नन्द॒न्ति । आऽग॑तेन । प्र॒जाः । इ॒माः ॥ ७ ॥ काले परमात्मनि मनः जगत्सिसृक्षानिमित्तभूतं मनो वर्तते । तस्मि नेव प्राणः सूत्रात्मा सर्वजगदन्तर्यामी वर्तते । अन्तर्यमनोपाधिकत्वेन काले वर्तत इति आधारव्यपदेशः । यद्वा मनः । जात्येकवचनम् । स- र्वेषां प्राणिनां मनांसि : प्राणः पञ्चवृत्तिः प्राणा अपि परमात्मन्येव वर्तन्ते । तथा नाम नामधेयं सर्वेषां वस्तूनां संज्ञा अपि तत्रैव समा- हितम् । स्त्रीपुरुषादिसंज्ञाभिः काल एव उच्यत इत्यर्थः । यद्वा सर्वेषां रूपाणि कृत्वां तेषां नामान्यपि स्वयमेव व्यवहरतीत्येतदभिप्रायेण काले नाम समाहितम् इत्युक्तम । " [ सर्वाणि रूपाणि ] विचित्य धीरो ना- मानि कृत्वाभिवदन् यदास्ते " इति हि श्रुतिः [तै० आ०३.१२.७] । 1 S' असृजत् 2S/ परस्मै° for आत्मने.. 3 S चक्षुर्लु° for चक्षुःशब्दो लुम पञ्चवृत्तिकाः 5S कृतत्वातेषां 1 S'