पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ अथर्वसंहिताभाष्ये कालेन वसन्तादिरूपेण आगतेन सर्वा इमाः प्रजा नन्दन्ति संतुष्यन्ति स्वस्वकार्यसिद्धेः ॥ अष्टमी ॥ कालें तर्पः काले ज्येष्ठे काले ब्रह्म समाहितम् । कालो ह॒ सर्व॒स्येश्वरो यः पि॒तासीत् प्र॒जाप॑तेः ॥ ८ ॥ काले । तर्पः । काले । ज्येष्ठ॑म् । काले । ब्रह्म॑ । समऽआहितम् । । 1 कालः । ह॒ । सर्व॑स्य । ईश्वरः । यः । पिता । आसीत् । प्र॒जाऽप॑तेः॥७॥ । काले परमात्मनि तपः जगत्सर्जनविषयं पर्यालोचनम् । पर्यालोचने । अस्माद् असुन । " तपसा चीयते ब्रह्म " र तप [मु०१, १. ८ ] इत्यादौ तपः शब्दः पर्यालोचनार्थत्वेन व्याख्यातः । तथा ज्येष्ठम सर्वस्य आदिभूतं हिरण्यगर्भाख्यं तत्त्वं वर्तते । तथा ब्रह्म साङ्गो वेद- स्तत्प्रतिपादकः समाहितम् सम्यगाहितः । यद्वा तपः कृच्छ्रचान्द्रायणा- दिकम् । तत्फलप्रदातृत्वात् तत्रैव वर्तनम् । एकः कालशब्दो यौगिक: कलयितरि काले ज्येष्ठं ब्रह्म हिरण्याख्यम् । " ज्येष्ठं ब्रह्म श्रेष्ठं ब्रह्म " इति हि श्रुत्यन्तरम् । हशब्दः अवधारणे । कालः सर्वस्य जगत ई- श्वरः स्वामी । यः कालः प्रजापतेः प्रजानां स्रष्टुचतुर्मुखस्य ब्रह्मणः पि- ता जनक आसीत् ॥ नवमी ॥ तेने॑षि॒तं तेन॑ जा॒तं तदु॒ तस्मि॒न् प्रति॑ष्ठतम् । भूत्वा बिभ॑र्त परमे॒ष्ठान॑म् ॥ ९ ॥ तेन॑ इ॒वि॒तम् । तेन॑ । जा॒तम् । तत् । ॐ इति॑ । तस्मिन् । प्रति॑िऽस्थितम् । । कालः । ह॒ । ब्रह्म॑ । भू॒त्वा । बिभ॑र्ति । य॒रमेऽस्थिन॑म् ॥ ९ ॥ तेन कालेन इषितम् इष्टं सर्व स्रष्टव्यं जगत् । कामितम् इत्य- र्थः । " ती सह" १ PP आसीत् ।. We with J तेनैव जातम् उ- इति इडागमः ४ । A S तैन. We with BK KRV De C