पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१६ अथर्व संहिताभाष्ये यजुः प्रविष्टपाठरूपो मन्त्रः अजायत । उपलक्षणम् एतत् सामवेदादी- नाम । तथा च पुरुषसूक्ते 'समाम्नातम् “ तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद् यजुस्तस्माद् अजायत " इति [१९. ६. १३ ] । तथा [ काल: काल एव ] देवेभ्य इन्द्रादिभ्यः अक्षितम् क्षयरहितं भागम भागत्वेन परिकल्पितं यज्ञम प्रकृतिविकृत्यात्मकं सोमयागं समैरयत् उदपादयत् । इन्द्रादिदेवभागत्वेन यज्ञं जनयामास । क्षितम् इति । क्ष क्ष । “निष्ठायाम् अण्यदर्थे " इति ण्यदर्थपर्युदासेन अत्र दीर्घाभावः । अत एव “क्षियो दीर्घात् " इति नत्वाभावः । ण्य- दर्थो भावकर्मणी इति व्याख्यातम् ॥ अ- " गवि गं धृञो वः" चतुर्थी ॥ गां वाचं धारयन्तीति गन्धर्वाः । इति वप्रत्ययः । गोशब्दस्य गम इति आदेशः । धातोर्गुणः ४ । ग- न्धर्वा गायकाः अप्सु उदकेषु अन्तरिक्षे वा सरन्ति गच्छन्तीति अप्स - रस: मध्यमलोकस्थाना: काल एव आधारे वर्तन्ते । किं बहुना लोकाः सर्वे काले प्रतिष्ठिताः । लोकशब्दो जनवाची भुवनवाची च । अ- यम् अथर्ववेदस्य स्रष्टा देवः दीप्यमानः अङ्गिराः परमात्माङ्गरसोद्भूतः अ- ङ्गिरा नाम देवः । अथर्वा । " अथार्वाग् एनम् एतास्वेवाप्स्वन्विच्छ " इति [ गो० ब्रा० १.४] ब्राह्मणे अशरीरया वाचा स्वसृष्टास्वेव अप्सु अ- र्वाग् अभिमुखम् एनं परमात्मानम् अन्विच्छेति अभिहितः परमात्मा अथर्वशब्दवाच्य इति बहुधा प्रपञ्चितम् । सोयम् अथर्वा अथर्ववेदस्रष्टा देवश्च काले स्वजनके अधि ष्ठितं । ४ अधिशब्दः सप्तम्यर्था- नुवादी ४ ॥ पञ्चमी ॥ इमं च सर्वकर्मार्जनस्थानं लोकम् भूमिं परमम फलभोग- स्थानं स्वर्गलोकं पुण्यान पुण्यकर्मभिरार्जितान् लोकान् पुण्याः दुःखले - शासंस्पृष्टा विधृती: लोकधारकान् सर्वान् उक्तान् अनुक्तांश्च लोकान् ब्र- ह्मणा स्वकारणेन देशकालवस्तुपरिच्छेदरहितेन सत्यज्ञानानन्तादिलक्षणेन परमात्मना अभिजित्य अभिव्याप्य सः एतत्सूक्तद्वयप्रतिपार्थः परमः स- 1S' वर्तते 2S' प्रतिपाद्य.