श्रुतिसंहितास्मृतीनां भवति यथैक्यात् तदुक्तिरतः ॥
राहुस्तच्छादयति प्रविशति यच्छुक्लपञ्चदश्यन्ते ।
भूछायातमसीन्दोर्वरप्रसादात् कमलयोनेः”[१] । ॥
तथा च गर्गः ।
तपःप्रवृत्तस्य राहोर्ब्रह्मा वरं ददौ पञ्चदश्यन्ते चन्द्रमुपसर्प- इति।
ब्रह्मसिद्धान्ते ।
“चन्द्रोऽम्बुमयोऽधःस्थो यदग्निमयभास्करस्य मासान्ते ।
छादयति शमिततापो राहुश्च्छादयदि तत्सवितुः"[२] ॥
सूर्यसिद्धान्ते ।
“तमोमयस्य तमसो रविरश्मिपलायिनः ।
भूछाया चन्द्रविम्बं च स्थाने द्वे परिकल्पिते"[३]॥
ब्रह्मसिद्धान्ते ।
भूछायाव्याससमः शशिकक्षायां स्थितः शशिग्रहणे ।
राहुश्छादयतीन्दुं सूर्यग्रहणेऽर्कमिन्दुसमः ॥
यत् तदधिकं तमोमयराहुव्यासस्य सूर्यदृष्टत्वात् ।
नश्यति भूछायेन्द्वोर्व्याससमोऽस्माद्भवति राहुः ॥
भूछाया नेन्दुमतो ग्रहणे छादयति नार्कमिन्दुर्वा ।
तत्स्थस्तद्व्याससमो राहुश्छादयति शशिसूर्यौ"[४] ॥
वीरभद्रः ।
सिंहिकातनयस्यास्य राहोः पुच्छमुखादृते ।
नान्यदस्त्युदरं बाहुपादादिकमिति श्रुतिः [५]॥