क्रमशस्त्रिभं च पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥
काश्यपश्च ।
कार्त्तिकादिसमा ज्ञेया द्विद्विनक्षत्रचारिणः ।
त्रिभं भाद्रपदं ज्ञेयं फाल्गुनाश्वयुजौ[१] तथा ॥
नक्षत्रचारिण इति चारशब्द उदयचारपरः ।
तथा च काश्यपः ।
संवत्सरे युगे चैव षष्ट्यब्देऽङ्गिरसः सुतः ।
यन्नक्षत्रोदयं कुर्यात् तत्संज्ञं वत्सरं विदुः ॥
वृद्धगर्गश्च ।
प्रावासान्ते समर्क्षेण तूदितो युगपच्चरन् ।
तस्मात् कालात् तदृक्षाद्यो गुरोरब्दः प्रवर्त्तते ॥
वराहसंहितायां च ।
नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री ।
तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥
पराशरेणाप्युदयादेव फलमुक्तं तद्वाक्यमत्रैव लिखिष्यामः । अतो यत्र चारमात्रेण बार्हस्पत्याब्दश्रवणं तत्रोदयचारपरता । पराशरवृद्धगर्गाभ्यां तु श्रवणादित्रये श्रावणः । पूर्वभाद्रपदादित्रये भाद्रः । अश्विनीभरण्योराश्विन इत्युक्तम् तद्वाक्यमनन्तरमेव लिखितम् ।
अथैतेषां फलम् । तत्र पराशरः ।
तस्मिन् कृत्तिकारोहिणीषूदिते क्षुच्छस्त्राग्न्यनावृष्टिप्राबल्यं गोशाकटिकपीडा च । सौम्यरौद्रयोरेतदेव गवादिवर्जम् । तिष्यपुनर्वस्वोरुक्तविपर्ययः । पुष्यवन्मघाऽऽश्लेषासु राज्ञामृपतापश्च । फाल्गुनीसावित्रेषु क्वचित् क्षेमसुभिक्षं नारीदौर्भाग्यं च । चित्रास्वात्युदितो नृपशस्यवर्षक्षेमारोग्यकरः । एवमेवैन्द्राग्न्यमैत्रयोः । ऐन्द्रनैर्ऋतयोर्वनस्पतिवर्षश्रेष्ठनृपतिप्रधानविनाशायेतरवृद्धये । आषाढ-
- ↑ त्रिभं भाद्रपदे ज्ञेयं फाल्गुने श्रावणे इति अ. ।