वैशाखे शस्यजनना वृष्टयः सम्भवन्ति च ॥
वृद्धगर्गस्तु ।
विशाखां चैव मैत्रं च चरेद्यदि बृहस्पतिः ।
निरीतिकः स वैशाखो हायनः प्राणवर्षकृत्[१] ॥
सर्वशस्यानि पुष्यन्ति सुभिक्षं क्षेममेव च ।
नरेन्द्राश्चाविरोधेन प्रजा रक्षन्ति धर्मतः ॥
वैशाखः ।
विष्णुधर्मोत्तरे ।
ज्येष्ठामूलोपगे जीवे वर्षं स्याच्छकदैवतम् ।
पीडाकरं धर्मभृतां सम्यक् श्रेष्ठमहीभृताम् ॥
गर्गः ।
वृक्षगुल्मलताशस्यक्षेमकर्मविनाशनः ।
क्रूराज्ञादीप्तिजननो ज्येष्ठः श्रेष्ठनरान्तकृत् ॥
वराहसंहितायां तु ।
ज्येष्ठे ज्ञातिकुलधनश्रेणीश्रेष्ठा नृपाः ससर्वधर्मज्ञाः ।
पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम् ॥
वृद्धगर्गस्तु ।
ज्येष्ठे मूले च नक्षत्रे चरेद्यदि बृहस्पतिः ।
ऐन्द्रसंवत्सरः स स्यात् सर्वभूतहिते शिवः ॥
दुर्भिक्षं जायते घोरं वैरं चैव प्रवर्त्तते ।
न च वर्षेत् तदा देवो न च निर्वर्त्तते सदा ॥
ज्येष्ठः ।
विष्णुधर्मोत्तरे ।
आषाढद्वयगे जीवे वैश्वदेवमुदाहृतम् ।
नाशुभं न शुभं लोके राजविग्रहकारणम् ॥
- ↑ जलवृष्टिकृदित्यर्थः ।