वराहसंहितायाम् ।
श्रेष्ठं चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम् ।
वर्ष द्वितीयं तु सुभानुसंज्ञं रोगप्रदं मृत्युकरं नवं[१] च ॥
तारणं तदनु भूरिवारिदं शस्यवृद्धिमुदितातिपार्थिवम् ।
पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुंलम् ॥
विष्णुधर्मोत्तरे ।
सर्वजित् सर्वधारी च विरोधी विकृतः खरः ।
त्वाष्ट्रे पञ्चयुगे येषां द्वितीयस्तु शुभप्रदः ॥
वराहसंहितायां तु ।
त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरोऽन्यः खलु सर्वधारी ।
तस्माद्विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय शेषाः ॥
नन्दनोऽथ विजयो जयस्तथा मन्मथश्च परतश्च दुर्मुखः ।
कान्तमत्र युग आदितस्त्रयं मन्मथः समफलोऽधमः परः ॥
विष्णुधर्मोत्तरे ।
नन्दनो विजयश्चैव जयः कामश्च दुर्मुखः ।
अहिर्बुध्य्नयुगे पञ्च येषामाद्या हितास्त्रयः ॥
वराहसंहितायां तु ।
हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च ।
शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ॥
ईतिप्रायाः प्रचुरपवना वृष्टिरब्दे तु पूर्वे
मन्दं शस्यं न बहु सलिलं वत्सरेऽत्र द्वितीये ।
अत्युद्वेगः प्रचुरसलिलः स्यात् तृतीयश्चतुर्थो
दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ॥
- ↑ नतम् इति अ. ।